SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ प्रासादा निष्पद्यन्ते । एवं सप्तक्षेत्र्यां सप्तकोटीद्रव्यव्ययः प्रान्तसमये स्वहस्तेन कृतः ॥ इति यात्रोपदेशः ४॥ Loooooooooooooooooooooooooooooooooooooooooo श्रीतीर्थपान्थरजसा विरजीभवन्ति तीर्थेषु बम्भ्रमणतो न भवे भ्रमन्ति । द्रव्यव्ययादिह नराः स्थिरसंपदः स्युः पूज्या भवन्ति जगदीशमथार्चयन्ति ॥ १ ॥ यथा श्रीवस्तुपालेन साई १२ यात्रा कृता । तत्राद्यतीर्थयात्राविस्तरो यथा पाथेयवन्तः पथि योग्ययुग्याः सोपानहः सोदकभाजनाश्च । श्रीवस्तुपालेन समं जनौघाः प्रयाणकाय प्रवणा बभूवुः ॥ २॥ समं समग्रैरपि बन्धुवर्गेनिसर्गबन्धुर्विबुधवजस्य । शुभे मुहूर्तेऽथ शुभैनिमित्तमन्त्री स्वनाथानुमतः प्रतस्थे॥३॥ ___ न वाहनं यस्य स तस्य यानं नाऽऽसीद् धनं यस्य स तस्य वित्तम् । __ न चीवरं यस्य स तस्य वस्त्रं कल्पद्रुकल्पः प्रददौ पृथिव्याम् ॥ ४ ॥ | भुङ्क्ते स्म सर्वेष्वपि भुक्तवत्सु शेते स्म सुप्तेपु स यात्रिकेषु। प्रबुध्यते स्म प्रथमं तदित्थं सङ्घप्रभुत्वव्रतमाचचार॥५॥ प्रभूतभोज्यानि बहूदकानि सुगोरसान्युन्मदमानवानि। तस्याति दुर्गेऽपि पथि प्रयाणान्युधानलीलासदृशान्यभूवन्॥६॥ (२४६) POO00000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy