SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ००००००००००००००००००००००००००nao अष्टाह्रिकादिमहिमां जिनपुङ्गवानां कुर्वन्ति ये सुकृतिनः कृतिनः सुभक्त्या । कर्माष्टकं जगति ते हि भवाष्टकस्य मध्ये विधूय शिवदं शिवधाम यान्ति ॥ १ ॥ यतः-अष्टाह्निकाप्रबन्धः कर्माऽऽबन्धं धुनोति भव्यानाम् । क्रमभुज्यमानपथ्याहार इव व्याधिसंबन्धम् ॥२॥ सामायिकाऽऽवश्यकपौषधानि देवार्चनखानविलेपनानि । ब्रह्मक्रियादानदयामुखानि भव्याः! चतुर्मासकमण्डनानि ॥ ३ ॥ व्याख्यानश्रवणं जिनालयगतिर्नित्यं गुरोर्वन्दनं प्रत्याख्यानविधानमागमगिरां चित्ते चिरं स्थापनम् । कल्पाऽऽकर्णनमात्मशक्तितपसा संवत्सराऽऽराधनं श्राद्धैः श्लाध्यतपोधनादिति फलं लभ्यं चतुर्मासके ॥ ४ ॥ देवार्चनादिविधिना गुरुवन्दनेन सम्यक् तपोभिरसमैः समयाऽऽदृतेन । आलोचनाप्रभृतिभिश्च शुभक्रियाभिः संवत्सरप्रभृतिपर्व कृतार्थयन्ति ॥ ५॥ ॥ इति जिनार्थोपदेशः ४१ ॥ 00000000000000000000000000000000000000000000000000000 oooonlod जिणाणं पूअ-जत्ताए साहूणं पज्जुवासणे । आवस्सयम्मि सज्झाए उज्जमेह दिणे दिणे ॥ १ ॥ (२२१)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy