________________
००००००००००००००००००००००००००nao
अष्टाह्रिकादिमहिमां जिनपुङ्गवानां कुर्वन्ति ये सुकृतिनः कृतिनः सुभक्त्या ।
कर्माष्टकं जगति ते हि भवाष्टकस्य मध्ये विधूय शिवदं शिवधाम यान्ति ॥ १ ॥ यतः-अष्टाह्निकाप्रबन्धः कर्माऽऽबन्धं धुनोति भव्यानाम् । क्रमभुज्यमानपथ्याहार इव व्याधिसंबन्धम् ॥२॥
सामायिकाऽऽवश्यकपौषधानि देवार्चनखानविलेपनानि ।
ब्रह्मक्रियादानदयामुखानि भव्याः! चतुर्मासकमण्डनानि ॥ ३ ॥ व्याख्यानश्रवणं जिनालयगतिर्नित्यं गुरोर्वन्दनं प्रत्याख्यानविधानमागमगिरां चित्ते चिरं स्थापनम् । कल्पाऽऽकर्णनमात्मशक्तितपसा संवत्सराऽऽराधनं श्राद्धैः श्लाध्यतपोधनादिति फलं लभ्यं चतुर्मासके ॥ ४ ॥
देवार्चनादिविधिना गुरुवन्दनेन सम्यक् तपोभिरसमैः समयाऽऽदृतेन । आलोचनाप्रभृतिभिश्च शुभक्रियाभिः संवत्सरप्रभृतिपर्व कृतार्थयन्ति ॥ ५॥
॥ इति जिनार्थोपदेशः ४१ ॥
00000000000000000000000000000000000000000000000000000
oooonlod
जिणाणं पूअ-जत्ताए साहूणं पज्जुवासणे । आवस्सयम्मि सज्झाए उज्जमेह दिणे दिणे ॥ १ ॥
(२२१)