SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 5000000000000000000000000000000000000000000000000000000 संवच्छरचाउम्मासिएसु अठ्ठाहिआसु अ तिहीसु । सव्वायरेण लग्गइ जिणवरपूआतवगुणेसु ॥ १॥ पुण्यं सदा पुण्यवता विधेयं विशेषतः पर्वणि वार्षिकाये । पूजातपःसंयमदानशीलं पुण्यक्रियाऽऽरम्भपरिच्युतिश्च ॥ २ ॥ लोके यथा मोदकादिभोजनं दीपालिकादौ वस्त्राद्याडम्बरश्च । तथा पर्युषणादौ विशेषतः पुण्यं करणीयम्। यतः-मन्त्राणां परमेष्ठिमन्त्रमहिमा तीर्थेषु शत्रुञ्जयो दाने प्राणिदया गुणेपु विनयो ब्रह्मव्रतेषु व्रतम् । संतोषो नियमे तपस्सु च शमस्तत्त्वेपु सदर्शनं सर्वज्ञोदितसर्वपर्वसु परं स्याद्वार्षिकं पर्व च ॥ ३ ॥ तथा चातुर्मासकत्रयमाषाढकार्तिकफाल्गुनरूपम् । तथाष्टाह्निका चैत्राश्विनपर्युषणाद्या । तथा श्रुततिथयो यथाबीया पञ्चमि अट्ठमि एकादसी चउदसी पण तिहीसु । एयाउ सुअतिहीओ गोअमगणहारिणा भणिआ॥enal इत्यादिपर्वतिथिपु प्रतिक्रमणपूजादिपुण्यैः शुभकर्मबन्धो भवति । यदुक्तम्बीया दुविहे धम्मे पञ्चमि नाणे अ अट्ठमी कम्मे । एगारसि अङ्गाणं चउद्दसी चउदपुव्वाणं ॥५॥ अष्टमी अष्टकर्मान्ता सिद्धिलाभा चतुर्दशी । पञ्चमी केवलज्ञानं तस्मात्रितयमाचरेत् ॥ ६॥ ॥ इत्यष्टाह्निकार्यौपदेशः ४० ॥ (२२०) 00000000000000000000000000000000000000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy