________________
योऽदादर्थिव्रजस्य त्रिजगदधिपतेः सद्गुणोत्कीर्त्तनायां स श्रीमानाम्र देवो जगति विजयते दानवीराग्रयायी ॥७॥ ॥ इति जिनार्चोपदेशः ३८॥
गन्धैश्चारुविलेपनैः सुकुसुमैर्धूपैरखण्डाक्षतैर्दीपैर्भोज्य वरैर्विभूषणगणैर्वस्त्रैर्विचित्रैः फलैः । नानावर्णसुवर्णपूर्णकलशैः स्तोत्रैश्च गीतादिभिः पूजां पूज्यपदस्य केऽपि कृतिनः कुर्वन्ति सौख्यावहाम्॥१॥ इत्यादिबहुभेदरचनारम्यां यो देवपूजां रचयति स खर्गादिसौख्यानि लभते । किं बहुना ? येन केन प्रकारेण पूजा कृता न निष्फला । यदुक्तम्-
असर्वभावेन यदृच्छया वा पराऽनुवृत्त्या विचिकित्सया वा ।
ये त्वां नमस्यन्ति जिनेन्द्रचन्द्र ! तेऽप्यामरी संपदमाप्नुवन्ति ॥ २ ॥
भावपूजाफलं यथा-
तित्थयरवन्दणत्थं चलिओ भावेण पावए सग्गं । जह दुद्दरदेवेणं पत्तं वेमाणिअसुरतं ॥ ३ ॥ मणिकारश्रेष्ठिसेढकविप्रकथा वाच्या ॥ इत्यचोपदेशः ३९ ॥
(२१९)