SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 3000०००००००००००००0000000000000000000000000000000000000 ये देवं स्नपयन्ति शाम्यतितमां तेषां रजः कर्मणां ये नाथं परिपूजयन्ति जगतः पूज्या भवन्त्येव ते। मङ्गल्यानि जिनस्य ये विदधते तद्विप्ननाशो भवेत् पादाब्जे प्रणमन्ति ये भगवतस्ते वन्दनीयाः सताम्॥१॥ सर्वमलरहितस्य परमेश्वरस्य स्नात्रं स्वकर्ममलक्षालनाद्यर्थम् । यतः न स्तुतिस्त्वयि न चापि निन्दनं नाथ ! संलगति केवलात्मनि । कर्तुरेव लगतीश ! केवलं वज्रभित्तिनिहितेव गोलिका ॥ २ ॥ एक्मारात्रिकेण वार्त्तिनाशः । मङ्गलप्रदीपेन खमङ्गल्यम् । यतः बहुवर्तिसमायुक्तं ज्वलन्तं श्रीजिनाग्रतः । कुर्यादारात्रिकं यस्तु कल्पकोटि दिवं वसेत् ॥ ३ ॥ कर्पूरेण तु यः कुर्याद्भक्त्या श्रीजिनमूर्धनि । आरात्रिकं दीप्रदीपं लभते मोक्षमव्ययम् ॥४॥ प्रज्वाल्य देवदेवस्य कर्पूरेण प्रदीपकम् । धर्मराज्यमवाप्नोति खकुलं च समुहरेत् ॥ ५॥ धूपो दहति पापानि दीपो मृत्युविनाशकः । नैवेद्ये विपुलं राज्यं प्रदक्षिणा शिवप्रदा ॥ ६ ॥ तत्रावसरे सर्वशक्त्या दानं देयम् । यथा-- हात्रिंशद् द्रम्मलक्षा भृगुपुरवसतौ सुव्रतस्याहतोऽग्रे कुर्वन् मङ्गल्यदीपं ससुरनरवरश्रेणिभिः स्तूयमानः । (२१८) >0000000000000000000000000000000000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy