________________
महाव्याधिग्रस्तः शिटितवसनो दीनवदनो बुभुक्षाक्षामात्मा परगृहशतप्रेक्षणपरः। स दुःखार्तो लोके भ्रमति हि भवे येन कुधिया न सद्भक्त्या ध्यातो ननु जिनपतिश्चिन्तितफलः ॥२॥
दशपुरे वज्रकर्णो राजा पारधिपरः क्वापि वनेऽन्यदा साधुना भणितः। यथाहंतूण परप्पाणे अप्पाणं जो करेइ सप्पाणं । अप्पाणं दिवसाणं कए विनासेइ अप्पाणं ॥ ३ ॥
स च प्रतिबुद्धः प्राह-भगवन् ! कथं मे कर्ममोक्षः ?। साधुराहजइ न कुणसि तवचरणं न पढसि न कुणसि देसि नो दाणं । ता इत्तियं न सक्कसि जं देवो इक्क अरिहंतोmens
स चाह-जिनं विना नान्यस्य नमस्कारो मया कार्यः । स मुद्रिकासंस्थं जिनं नमन् स्वस्वामिनं सिंहोदरं नाऽनमत् । तस्योपरि कुपितः सिंहोदरः ससैन्यो दशपुरं वेष्टयित्वा स्थितः। रामलक्ष्मणाभ्यां सार्मिकभक्त्या युद्ध विधाय बद्धः सिंहोदरः वज्रकर्णेन सह मैत्री प्रापितः । वज्रकर्ण स्तुवन्ति स्म । यथा
अहो ! सात्त्विकमूर्धन्यो वज्रकर्णो महीपतिः । सर्वनाशेऽपि योऽन्यस्मै ननाम न जिनं विना ॥ ५॥ वज्रकर्णकथा रामायणोक्ता वाच्या ॥ इति जिनार्कोपदेशः ३७॥
000000000000000000000000000000000000000000000000००
(२१५)