________________
क्षमाः; तथा केवलिनोऽपि वक्तुं न क्षमाः । यदुक्तम्
आयुकं यदि सागरोपममितं व्याधिव्यथावर्जितं पाण्डित्यं च समस्तवस्तुविषयं प्रावीण्यलब्धास्पदम् । जिहा कोटिमिता च पाटवयुता स्यान्मे धरित्रीतले नो शक्नोमि तथापि वर्णितुमलं तीर्थेशपूजाफलम् ॥५॥ श्रेष्ठिनोक्तम्-तर्हि पुष्पस्यैकस्यार्पय । तत्फलमर्पयितुमसमर्थः । तत्पत्रस्यार्पय । तत्राप्यसमर्थः । तर्हि गच्छ स्वस्थाने । अमोघा वासरे विद्युत् अमोघं देवदर्शनमित्युक्त्वा तव गृहे चतुष्कोणेषु रत्नभृतस्वर्णकलसान् स्थापयन्नस्मीत्युक्त्वा तिरोभूतः । पुत्राणां पुण्यफलं दर्शयित्वा धर्मे स्थिरीकृत्य कुटुम्बम्, तद्धनेन यावज्जीवं सुखी भोगी जातः त्रिजिनार्चापरायणः ॥ इति जिनार्चोपदेशः ३६||
संसाराम्भोधिवेडा शिवपुरपदवी दुर्गदारिद्र्यभूभृद्भङ्गे दम्भोलिभूता सुरनरविभवप्राप्तिकल्पद्रुकल्पा । दुःखाग्नेरम्बुधारा सकलसुखकरी रूपसौभाग्यभर्त्री पूजा तीर्थेश्वराणा भवतु भवभृतां सर्वकल्याणकर्त्री ॥१॥ श्रीजिनेन्द्रपूजा भुक्तिमुक्तिदा सर्वदा सेव्या । इह परलोके सुखमिच्छता येन च जिनो न पूजितः स दुःखी स्यात् । यतः -
(२१६)