________________
००००००००००००००००००००००००००००००००००००००
अद्रेर्यत्कुलिशः प्रचण्डपवनो मेघस्य यद् यत्तरोः पशुर्यत्करिणो हरिर्वितनुते तत्कर्मणां सज्जपः ॥ २ ॥ जपकोटिपुण्यसमानं निरक्षरं ध्यानम् । यतःप्रणिहन्ति क्षणार्धन साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥ ३ ॥
ध्यानकोटिसमो लयश्चेतसो मोहमानमदमायागृहकार्यचिन्तनवर्जनादिना एकाग्रसंस्थापनं लयः। परं सर्वत्र भाव एव विलोक्यते । यतः
मन्त्रे देवे गुरौ तीर्थे दैवज्ञे स्वप्नभेषजे । यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥ ४ ॥ ___दृष्टान्तो यथा-कुसुमपुरे धनसारश्रेष्ठी त्रिकालजिनार्चादिपुण्यप्रवणः परिवसति स्म । तेन खन्यायार्जितधनेन जिनप्रासादः कारितः। सुतानां न रोचते स्म । अभाग्यवशाद् निईनो जातः। पुत्राः कथयन्ति स्म--पुण्यं कृतं तेन धनं गतम् । तथापि स्तोकं स्तोकं करोत्येव । एकदा गुरुभिः पृष्टम्-अस्ति सुखम् । तेनोक्तम्-संतोषसुखमस्ति । परं धर्मापभ्राजनाऽस्ति जनमध्ये। गुरुभिः पार्श्वमन्त्रो मन्त्राधिराजाभिधः समर्पितः। तेन वप्रासादे स्वमूलनायकविम्बाग्रे शतपत्रपुष्पमालापूजापूर्व जप्तः। संतुष्टः श्रीधरणेन्द्रः प्रोक्तम्--मार्गयाऽभीष्टम् । तेनोक्तम्-यावत्पुष्पमालापूजया पुण्यमर्जितं तावन्मानं धुम्नं समर्पय । धरणेन्द्रेणोक्तम्--तावत्पुण्यानुरूपं फलं चतुःषष्टिसुरेन्द्रा अपि दातुंन
(२१५)
200000