________________
ooooo
Po०००००००००००००००००००००००००००००००००००००००००००००००
उपसर्गाः क्षयं यान्ति छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति पूज्यमाने जिनेश्वरे ॥ १॥ __ जिने पूज्यमाने देवमानवदानवोहवा उपद्रवाः क्षयं गच्छन्ति । यथा-पूर्वभवक्रुद्धद्वैपायनासुरेण द्वारिकाभङ्गश्चिकीर्षितोऽपि पौरक्रियमाणस्थानस्थानजिनपूजास्नात्राऽऽचाम्लाऽमारिप्रवर्त्तनादिपुण्यद्वादशवर्षावधि नाऽजनि, लोकानां पुण्यशिथिलीभवनात्तदनु समभूत् । श्रीशान्तिजिने गर्भस्थे अचिराराज्ञीस्नानवारिच्छटाभिर्मरकोपद्रवशान्तिर्जाता । सांप्रतकालेऽपि विधिनाऽष्टोत्तरशतस्नात्रेण भूतप्रेतशाकिनीग्रन्थिविकाराः क्षयं यान्ति । तथा विनवल्लयो लाभान्तरायचौरधाटीलुण्टाककटकभीतिप्रभृतयः प्रदीपादिपुण्यात् क्षयं गच्छन्ति । तथा चपलं मनः शुभध्यानेनाऽऽधिदौर्मनस्योच्चाटाद्यभावेन सुप्रसन्नं भवति ॥ इति जिना!पदेशः ३५ ॥
-noपूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ १॥
कोटिवारजिनपूजाभिर्यत्पुण्यं तत्स्तोत्रेण जिनगुणवर्णनस्तवस्तुतिरासभासगीतगानादिना स्यात् । तथा स्तवनकोटिसमानो जिननामनमस्कारस्मरणादिरूपो जपः। यदृको दृषदो यदुष्णकिरणो ध्वान्तस्य यच्छीतगुः पद्मानां च हिमं वनस्य च दशाकर्षः पतङ्गस्य च ।
(२१४)
oooooooooooooooooooooooooo