________________
दृष्टान्तो यथा-- ढिल्ल्यां सा० साजणसिंहो द्विसंध्यं कालवेलाप्रतिक्रमणं विना न भुङ्क्ते स्म । एकदा पीरोजपातसाहिना बन्दी कृतः, ततस्तेन तत्रस्थेनाऽऽरक्षकाणां पञ्चाशत्हाटकान् दत्त्वा ५० प्रतिक्रमणानि कृतानि । भाग्यात्तुटसुरत्राणेन परिधाप्य मुक्तः, वादित्रादिप्रवेशोत्सवं गृहं प्राप्तः । ततो भीतारक्षकैर्वर्धापनमिषेण ५० हाटकाः प्राभृतीकृताः। तदा पञ्चाशत्सहस्रनिष्कानपि युष्मन्मार्गितानर्पयित्वा मयाऽमूल्यं प्रतिक्रमणं कर्त्तव्यमेवेत्युक्त्वा बहुमानदानपूर्व पश्चादर्पिताः । पर्वतिथिषु पोषधो ग्राह्यः । यथा -- सागरचन्दो कामो चन्द० ||७|| धन्ना सलाहणिज्जा० ||८|| सामाइयपोसह ० ||९||
पञ्चमः-श्लोकार्थेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ १० ॥ क्षेत्रं रक्षति चञ्चा सौधं लोलत्पटी कणान् रक्षा । दन्तात्ततृणं प्राणान्नरेण किं निरुपकारेण ? ॥ ११ ॥
तीर्थङ्करैर्विश्वं सांवत्सरिकदानेनाऽनृणं क्रियते । मुनिसुव्रतस्वामी प्रतिष्ठानपुरादेकरात्रौ विहृत्य षष्टियोजर्नी भृगुकच्छेऽश्वप्रतिबोधरक्षार्थमागतः । श्रीमहावीरेण चम्पातो विहृत्य . क्षुत्तृट्मूत्रनिरोधकष्टोपसर्गसहनात् मार्गे मुक्तिप्राप्त्याराधकानां १५ शतसाधूनां मरणमुपेक्ष्य वीतभयपत्तने चरमराजर्षिः श्रीउदायनो दीक्षितः । केवलाप्त्या तारितः ॥ इति जिनार्चोपदेशः ३४ ॥
(२१३)