________________
ये देवं स्नपयन्ति शाम्यतितमां तेषां रजः कर्मणां ये नाथं परिपूजयन्ति जगतः पूज्या भवन्त्येव ते । मङ्गल्यानि जिनस्य ये विदधते तन्निनाशो भवेत् पादाब्जे प्रणमन्ति ये भगवतस्ते वन्दनीयाः सताम्॥१॥ 'सर्वमलरहितस्य परमेश्वरस्य स्नात्रं स्वकर्ममलक्षालनाद्यर्थम् । यतः
न स्तुतिस्त्वयि न चापि निन्दनं नाथ ! संलगति केवलात्मनि । कर्तुरेव लगतीश ! केवलं वज्रभित्तिनिहितेव गोलिका ॥ २ ॥ एवमारात्रिकेण स्वार्त्तिनाशः । मङ्गलप्रदीपेन खमङ्गल्यम् । यतः
बहुवर्त्तिसमायुक्तं ज्वलन्तं श्रीजिनाग्रतः । कुर्यादारात्रिकं यस्तु कल्पकोटि दिवं वसेत् ॥ ३ ॥ कर्पूरेण तु यः कुर्याद्भक्त्या श्रीजिनमूर्धनि । आरात्रिकं दीप्रदीपं लभते मोक्षमव्ययम् ||४|| प्रज्वाल्य देवदेवस्य कर्पूरेण प्रदीपकम् । धर्मराज्यमवाप्नोति खकुलं च समुद्धरेत् ॥ ५ ॥ धूपो दहति पापानि दीपो मृत्युविनाशकः । नैवेद्ये विपुलं राज्यं प्रदक्षिणा शिवप्रदा ॥ ६ ॥ तत्रावसरे सर्वशक्त्या दानं देयम् । यथा-
द्वात्रिंशद् द्रम्मलक्षा भृगुपुरवसतौ सुव्रतस्यार्हतोऽग्रे कुर्वन् मङ्गल्यदीपं ससुरनरवरश्रेणिभिः स्तूयमानः ।
(२१८)