SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ चिन्तयित्वति सा मुक्तकाष्ठभारा त्वरातुरा । सिन्दुवारादिपुष्पाणि लात्वाऽगाजिनमर्चितुम् ॥ ११ ॥ नेत्रहीनतया शङ्कोः स्खलितांहिर्विपद्य सा । महर्डिदिवि देवोऽभूत् पूजाध्यानप्रभावतः ॥ १२ ॥ ज्ञानेनावधिना ज्ञात्वा वस्य देवत्वकारणम् । जिनार्चाध्यानमप्यागात् वीरं नन्तुमयं सुरः ॥ १३ ॥ अत्राऽन्तरे समायासीज्जितारिः पृथिवीपतिः। प्रभु नत्वोपदेशान्तेऽपृच्छद्विनयवामनः ॥ १४ ॥ हेतुना केन देवोऽयमतीव द्युतिमान् विभो ! । खाम्युवाच त्वया दृष्टा या मृता स्थविरा बहिः ॥ १५ ॥ तज्जीवोऽयमभूदेवोऽस्मत्पूजाध्यानयोगतः । यथाऽल्पेनापि कालेन क्षीणकर्मेव सेत्स्यति ॥ १६ ॥ इति जिनार्बोपदेशः ३२॥ -nnnnnnno000000000000000000000 ०००0000000000000000000000000000000000000000000000 जिनभवनं जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥१॥ जिनभवनं यः कारयति स वर्गभाक् स्यात् । यतः--काष्ठादीनां जिनावासे यावन्तः परमाणवः । तावन्ति वर्षलक्षाणि तत्कर्ता स्वर्गभाग् भवेत् ॥ २॥ परमाणुस्वरूपम् । यथा-- (२१०)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy