________________
जालान्तरगते सूर्ये यत्सूक्ष्मं दृश्यते रजः । तस्य त्रिंशत्तमी भागः परमाणुः स उच्यते ॥ ३ ॥ जीर्णोद्धारे त्वष्टगुणं पुण्यम् । यतः
नूतनार्हद्वरावासविधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं जीर्णोद्धारे विवेकिनाम् ॥ ४ ॥ दृष्टान्ताः ३६सहस्रप्रासादकारकश्रीसंप्रति-१४४४प्रासादकारक श्री कुमारपाल - पञ्चसहस्रप्रासादकारकश्रवस्तुपाल-श्रीशत्रुञ्जयभृगुकच्छोद्धारकारकमं० उदयनाङ्गञ्जबाहडदे- ८४ प्रासादकारकसं० पेथड झांझण-रैवतोद्धारपरसज्जनदण्डनायकादीनां स्वयं वाच्याः । तथा जिनबिम्बकारकाणां दुर्योन्यादिकं न स्यात् । यतः-जिनाचकारकाणां न कुजन्म कुगतिर्न च । न दारिद्र्यं न दौर्भाग्यं न चान्यदपि कुत्सितम् ॥५॥ दृष्टान्ताः--कयजिणपडिमुद्धारा पंडवा जत्थ वीसकोडिजुआ । मुत्तिनिलयम्मि पत्ता तं सत्तुंजयमहातित्थं ॥६॥ तथा श्रे० जावड- सपादकोटिबिम्बकारक श्रीसंप्रति--सपादलक्षार्चा परश्रीवस्तुपाल -- ७२चतुर्विंशतिपट्टकारकमुंजिगपुरीयसं० सूंटादीनां वाच्याः । तथा जिनपूजां जिनधर्म यः करोति तस्य नरसुखं चक्रवर्त्तिवासुदेवतीर्थकृत्पदवीप्रमुखम्, इन्द्राऽहमेन्द्रादिपदवीप्रमुखमोक्षसौख्यानि हस्तगतान्येव भवन्ति ॥
इति जिनार्चोपदेशः ३३ ॥
(२११)
२१