________________
०००००००००००००००००००००००००००००००००००००००००००००००००d
काव्येनेव कावर्धियेव सचिवो न्यायेन भूमीधवः शौर्येणेव भटो ह्रियेव कुलजः सत्येव गोत्रस्थितिः। शीलेनेव तपस्त्विषेव सविता वित्त्येव चाध्यात्मवान् वेगेनेव हयो दृशेव वदनं दानेन लक्ष्मीस्तथा ॥२७॥ दानेन विना लक्ष्मीविनाशोऽपि श्रूयते । यथा
श्रीवृद्धिर्नखवच्छेद्या न धार्य कदाचन । प्रमादात् स्खलिते क्वापि समूलाऽपि विनश्यति ॥२८॥
दानावप्येकवर्गस्थौ प्रवर्त्तकनिवर्त्तकौ । एकः खवर्गमध्यस्थः परः पर्यन्तभूरभूत् ॥२९॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य। यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥३०॥
आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः । गतिरेकैव वित्तस्य दानमन्या विपत्तयः ॥३१॥ , दातव्यं भोक्तव्यं सति विभवे सञ्चयों न कर्त्तव्यः । पश्येह मधुकरीणां सञ्चितमर्थ हरन्त्यन्ये ॥ ३२ ॥
यथादेयं भोज ! धनं घनं सुकृतिना ना सञ्चितव्यं कदा श्रीकर्णस्य बलेश्च विक्रमनृपस्याद्यापि कीर्तिर्यतः। अस्माकं मधु दानभोगरहितं कष्टं चिरात् संचितं तेनेयं निजपाणिपादरसना घर्षत्यहो ! मक्षिका ॥ ३३ ॥
इत्यादि सर्वप्रकारैर्विचार्यमाणं लक्ष्म्याः शोभाकरं दानमेव । यतः--