SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ -0000000000000000000000000000000000000 तदुक्तम्अन्यायसम्भवारिन्यायेनैव याति सा नियतम् । अर्जनहानिक्लेशः केवलमवशिष्यते कुधियाम् ॥ २३ ॥ अन्यायोपार्जितं वित्तं दश वर्षाणि तिष्ठति । प्राप्ते तु षोडशे वर्षे समूलं च विनश्यति ॥ २४ ॥ किञ्च-कमलाविकलनराणां कुलशीललावण्यरूपविद्यादयोऽपि गुणा दूषणतां भजन्ति । यदुक्तम्साकारोऽपि सविद्योऽपि निद्रव्यः कापि नार्थ्यते । व्यक्ताक्षरः सुवृत्तोऽपि द्रम्मः कूटो विवर्यते ॥ २५ ॥ वरं रेणुवरं भस्म नष्टश्रीन पुनर्नरः । मुक्त्वैनं दृश्यते पूजा कापि पर्वणि पूर्वयोः ॥२६॥ निर्धनो यद्युच्चस्तदा सति स्तम्भः, यदि खर्वस्तदा वामनः, यदि गौरस्तदाऽऽमवाती, यदि कृष्णस्तदा वने- | चरभिल्लः, अल्पाहारस्तदा मन्दः, बह्वाहारस्तदा च्छारकृत् उदरे शनैश्चरो लमः, यद्याडम्बरी तदा विटः, यदि विनयी तदा भिक्षाचरो याचकः, यदि मितभापी तदा मूको मूर्खश्च, यदि वाग्मी वातुलः, बहुभाषी भषलः प्रलापी, यदि क्षमी तदा भीरू रङ्कश्च, यदि शूरस्तदा धाटीवाहकः । किं बहुना ?, निर्धनः कुत्रापि न पूजनीयः। अत एव पुरुषाभरणं प्रधानतरलक्ष्मीः । लक्ष्म्याभरणं दानमेव । ००००००००००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy