SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ 3000000000000000000000000000000001 पुरुषस्य जनैर्गुणरूपतया प्रतिपद्यन्ते । तदुक्तम् विगुणमविगुणड्ढं रूवहीणं च रम्मं जडमवि मइमन्तं मंदसतं पि सूरं । अकुलमविकुलीणं तं पयंपन्ति लोआ नवकमलदलच्छी जं पलोएइ लच्छी ॥१७॥ वयोवृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः। सर्वे ते धनवृद्धस्य द्वारे तिष्ठन्ति किङ्कराः ॥ १८ ॥ वन्द्यते यदवन्द्योऽपि यदपूज्योऽपि पूज्यते । गम्यते यदगम्योऽपि स प्रभावो धनस्य तु ॥ १९ ॥ यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥२०॥ आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां मूकत्वं मितभाषितां वितनुते मौग्ध्यं भवेदार्जवम् । पात्रापात्रविचारसारविरहो यच्छत्युदारात्मतां मातर्लक्ष्मि ! तव प्रसादवशतो दोषा अपि स्युर्गुणाः ॥ २१ ॥ बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते । न च्छन्दसा केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फला कला ॥२२॥ किं बहुना ?, सर्वप्रकारैः पुरुषाणामाभरणं लक्ष्मीरेव, साऽपि प्रधानतरा न्यायोपात्ता, न चान्यायाऽर्जिता । 0000000000००००००००००००००००००००००००cooooooomnana
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy