SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 300000000000000000000000000000000000000000000000000 अर्हत्पदज्ञानशिवर्द्धिभिश्च मानुष्यकं जन्म वरं सुरेभ्यः ॥ १५ ॥ तेषां पुरुषाणामाभरणं कमलैव, न तु रूपकलादिगुणाः। यदुक्तम्जाइविज्जारूवं तिन्नि वि निवडंतु कन्दरे विवरे । अत्थुच्चिअ परिवड्ढउ जेण गुणा पायडा हुन्ति ॥१६॥ यतः-अकुलीनोऽपि उत्तमकुलीन उभयकुलविशुद्ध एकोत्तरशतकुलोद्योतकारक उभयपक्षनिर्मलराज| हंसावतारइति, निष्कलोऽपि षष्टिकाप्टपत्रीटिप्पनकः, तृतीयात्रयोदश्यादिविभेदमजानन्नपि भलीं कुण्डलायमानपन्नगस्थाने गणयन्नपि लक्ष्मीवान् लोकोक्तकूर्चालसरस्वतीचतुर्दशविद्यानिधानप्रज्ञाबृहस्पतिप्रमुखबिरुदधारी भवति । तथा कुरूपोऽपि सुरूपः यथा-रूपरेखामकरध्वजकृष्णवे कृष्णावतारः, अनुच्चशरीरत्वे वामनवासुदेवावतारः, उच्चले आजानुबाहुः, गौरवर्णः लम्बकर्णश्चम्पकच्छोटसमानः, मितभाषकवे कपूरचूर्ण क्षरति मुखकमले, बहुभाषणे वाग्मी चतुरचाणाक्यचकोरः, अल्पाहारे देवांशशुकाहारः, बह्वाहारे परिपूर्ण पूर्वभवे दत्त्वाऽऽगतः खेच्छया पूर्ण भुङ्क्ते, आलस्ये सामहणीसुरत्राणः, चापल्ये उद्यमी साहसिकसीमा एकाङ्गवरवीरः, खञ्जले लीलामदकलकलभगतिगामी, अदायकवे प्रच्छन्नदाता गुप्तचिन्तामणिः, पात्रापात्रविचारविकलवे उदारचरितआषाढमासजलधरवदुच्चनीचस्थानकवितरणशीलः; इत्याद्यनेकदूषणगणा अपि लक्ष्मीलीलावतीसमालिङ्गित ००००००००००००००००००००००००००००००००००००००००००००००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy