________________
.000000000000000000000000०००००००००००००००००००००००००००००
नवाम्बुदमस्ति । तथा सीतामहासतीविहितगोमयमयश्रीसुपार्श्वबिम्बं तच्छीलमाहात्म्यवज्रीभूतं महातीर्थमद्यापि मण्डपाचलमण्डनोद्दण्डविहारहारं विराजते । किं बहुना, श्रीजीरापल्लिफलवर्द्धिकलिकुण्डकुकुटेश्वरपावकाऽऽरासणसङ्केश्वरचारूपरावणपार्श्ववीणादीश्वरचित्रकूटाऽऽघाटश्रीपुरस्तम्भनपार्श्वराणपुरचतुर्मुखविहाराद्यनेकतीर्थानि यानि जगतीतले वर्तमानानि, यानि चाऽतीतानागतानि, तानि सर्वाण्यपि तत्तत्कालप्रधानचतुरनरशिरोरत्नपुरुषपुरन्दरप्रवर्त्तितान्येव, न तु स्वयं समुत्पन्नानि । परं क्वापि तत्तीर्थ न श्रूयते न दृश्यते, यस्मात् पुरुषाः सम्पनीपद्यन्ते, अत एव वसुधाभरणं पुरुष एव । यदुक्तम्
हस्ती भाति मदेन कं जलरुहैः पूर्णेन्दुना शर्वरी वाणी व्याकरणेन हंसमिथुनैनद्यः सभा पण्डितैः । शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरं सत्पुत्रेण कुलं नृपेण नगरं लोकत्रयं धार्मिकैः ॥ १३ ॥ अपिचक्षीराब्धावमृतं धने वितरणं वाणीविलासे ऋतं देहेऽन्योपकृतिः फलं वरतरौ वंशे च मुक्ताफलम् । मृत्स्नायां कनकं सुमे परिमलः पङ्के पयोजं यथा संसारे पुरुषायुषं निगदितं सारं तथा कोविदैः ॥ १४ ॥
गत्याऽघहत्या श्रुतसंयमाभ्यां सदानसद्ध्यानतपस्क्रियाभिः ।
000000000000000000000000000000000000000000000000000