________________
तथा नागड्दनवखण्डपार्श्वनाथतीर्थमपि चित्रकूटाधिपश्रीचित्राङ्गदनृपेणाघाटपुरपत्तनप्रेक्षणार्थागतेन विद्रुममुक्ताफलस्वस्तिकसमलङ्कृतान्तरालनागनामहूदमध्ये श्रीपार्श्वनाथप्रतिमाऽस्तीति निशालब्धस्वप्नानुसारेण प्रातस्ततस्तां समाकृष्य नागहृदनगरे प्रौढप्रासादं निर्माप्याऽस्थापि। तदनु तत्रैकदा तदंश्यसोमनृपे राज्यं कुर्वति योगिनीपुरतः शहाबुद्दीनसुरत्राणसैन्यं समागतम्। ततस्तेन पार्श्वप्रतिमा पूजयित्वा संग्रामाङ्गणमागतेन सकलमपि यवनसैन्यं प्रतिमाधिष्ठायकाधिष्ठितशरीरेण निर्घाटितम् । परं खशरीरे नव खड्याता लग्नाः, ततः पश्चादागतः खमक्षताङ्गं मूर्ति च नवशकलां ददर्श । तत उपवासत्रयाराधितदेवदत्तस्वप्नानुसारेण नव शकलानि संयोज्य प्रतिमां सज्जामकारयत् । तदनु महामहिमगेहं सर्वोपद्रवहरं नवखण्डश्रीपार्श्वतीर्थ जातम् । तथाप्टापदतीर्थ श्रीभरतचक्रवर्तिप्रवर्तितम् । यथाअष्टापदादिशिखरे निजनिजसंस्थानमानवर्णधराः। भरतेश्वरनृपरचिताः सद्रत्नमया जयन्ति जिनाः ॥ १२ ॥ |
___ तथा सेरीसकतीर्थ देवचन्द्रक्षुल्लकेनाराधितचक्रेश्वरीदत्तसर्वकार्यसिद्धिवरणत्रिभूमिमयगुरुचतुार्वंशति१ कायोत्सर्गिश्रीपार्थादिप्रतिमासुन्दरः प्रासाद एकरात्रिमध्ये कृतः। तत्तीर्थ कलिकालेऽपि निस्तुलप्रभावं दृश्यते । ।
तारणदुर्गतीर्थ श्रीकुमारपालभूपालकारितगुरुतरश्रीअजितनाथप्रासादतः सकललोकलोचनानन्दकन्दकन्दलन
9000००००००००००००००००००००००००००००००००००००००
1000000000000०००००००००००००००००००००००००००० 0000000०००