________________
000000000००००००००००००००००००००000o oooooooooo
सारं तदेव सारं नियोज्यते यजिनेन्द्रभवनादौ । अपरं पुनरपरधनं पृथ्वीमलखण्डपिण्डं वा ॥ ३४ ॥
दानालङ्काराभावे लक्ष्मीः पाषाणमलरूपैव। यथा-पाटलीपुरे नवनन्दनरेन्द्राणां कृपणतयाऽऽदीयमाननिजपातकमात्राणां लोककरपीडनोपार्जितनवकनकपर्वता अप्यभाग्ययोगात् पाषाणमयाः संजाताः। ते च संप्रत्यपि पाटलीपुरे गङ्गातीरे पीतोपलमया दृश्यन्ते । तथा रङ्कश्रेष्ठिनः परिपूर्णकमला पाताले लीना । राजगृहे श्रेष्ठिमम्मणस्यापि मणिमयबलीवात्मिका लक्ष्मीर्दानाद्यभावाद् मुधैव महीतले विनाशं प्राप्ता। तथा श्रेष्ठिसंकुलस्यापि | कल्ये भोजनं दास्याम्येवं षण्मासविप्रतारितकपिलबटुना उपवासत्रयाराधितकालिकादेवीदत्तरूपपरावर्तविद्याबलात् संकुलरूपमङ्गीकृत्य सकललक्ष्मीविलसिता । पश्चान्निजरूपं प्रकटीकृत्य तेन तस्येदमुपदिष्टम् । यथा
दातव्यं भोक्तव्यं सति विभवे संचयो न कर्त्तव्यः । यदि संचयं करिष्यसि संकुल! पुनरागमिष्यामि ॥३५॥ ____ किंबहुना ?, लक्ष्म्याभरणं केवलं दानमेव, न तु भोगादिसामग्री । यतः
आरोहन्ति सुखासनान्यपटवो नागान् हयांस्तज्जुषस्ताम्बूलाधुपभुञ्जते नटविटाः खादन्ति हस्त्यादयः। प्रासादे चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः स स्तुत्यो भुवने प्रयच्छति कृती लोकाय यः कामितम् ॥३६॥ ___ यद्यपि दानं दत्तं क्वापि निष्फलं न भवति । यतः
.(११)
0000000000000000000000000000000000000000000000000