SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ 000000 वरपूजया जिनानां धर्मश्रवणेन सुगुरुसेवनया । शासनभासनयोगैः सृजन्ति सफलं निजं जन्म ॥ १ ॥ जिनपूजाऽभावे राज्याद्यपि निष्फलम् । यतः किं राज्येन धनेन धान्यनिचयैर्देहस्य सद्भूषणैः पाण्डित्येन भुजावलेन महता वाचां पटुवेन च । जात्याऽप्युत्तमया कुलेन शुचिना शुभ्रैर्गुणानां गणैः येऽर्हच्चैत्यपवित्रविम्बकरणे तत्पूजने वाऽक्षमाः ? ॥२॥ जिनाचैकाग्रमनसा विधेया । यतः - क्रोधमानविनिर्मुक्तो रागद्वेषविवर्जितः । एकाग्रमनसो भूला जिनेन्द्रमभिपूजयेत् ॥ ३ ॥ तथा धर्मश्रवणं महालाभाय । यतः - सुच्चा जाणइ कल्लाणं सुच्चा जाणइ पावगं । उभयंपि जाणइ सुच्चा जं सेयं तं समायरे ॥ ४ ॥ धर्मः श्रुतोऽपि दृष्टोऽपि कृतो वा कारितोऽपि वा । अनुमोदितो राजेन्द्र ! पुनात्यासप्तमं कुलम् ॥ ५ ॥ धर्मश्रवणमपि सुगुरुसेवया स्यात् । यतः --- विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्मे न विचक्षणोऽपि । यथाऽर्थसार्थं गुरुलोचनोऽपि दीपं विना पश्यति नान्धकारे ॥ ६ ॥ (२०६)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy