SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 8600000000 दृष्टान्ता चल दृष्टान्तो यथा-गजपुरे श्रीधरो वणिक् साधुपार्श्वे जिनार्चाफलमशृणोत् । यथा-इह लोए दुरिआई दूरे गच्छंति हुंति रिद्धीओ। विप्फुरइ वरा कित्ती जिणपूआए पहावेण ।। ७ ।। परलोए देवासुरिंदत्तं चकवट्टिरिद्धी अ । मोक्खोवि धुवं पावइ जिणपूआए रओ जीवो ॥ ८ ॥ इत्युपदेशं श्रुला कारयित्वा जिनप्रतिमां त्रिसन्ध्यं पूजयामास । एकदा धूपोत्क्षेपपरो मया निष्ठिते धूपे नेतः स्थानाद्गन्तव्यमित्यभिग्रहमग्रहीत् । तावता सर्पः समागात् । दुष्टाहिं दृष्ट्राऽपि निश्चलस्तस्थौ। रोषात्सो यावता दशति शासनदेवतया तावताऽहिर्दूरमुच्छाल्य क्षिप्तः; लक्ष्मीवृद्धिकरं रत्नं समर्प्य तिरोभूता। रत्नानुभावात्कोटीध्वजः समभूत् । एकदा कामरूयक्षे पूजिते सर्वेष्टप्राप्तिरिति लोकवचः श्रुत्वा लोभाद् यक्षमर्चयामास। एवं लोकोक्तितश्चण्डीगणेशं चाप्यपूजयत् । अन्यदा गृहसर्वखं चौरधाट्या मुषितम् । आजीविकाऽपि दुःखेनाभूत् । उपवासत्रयेण कुलदेवी समाराधिता। प्रत्यक्षा सा कथयति स्म-गणेशाद्यास्तव लक्ष्मी दास्यन्ति, ये लया मामुपेक्ष्य भक्त्या; पूजिताः; सन्ति तेऽप्याराधिताः। अस्माभिः किमपि न चलतीत्युक्त्वा गता। ततः शासनदेवी आराधिता । तया जिनार्चाविषये यावज्जीवं दृढीकृतः । तुष्टया रत्नकोटी अनेकशः प्रदत्ता । ततस्त्रिसन्ध्यं जिनार्चा कुर्वन् श्रीधरः स्वर्गभाक् समभूत् ॥ इति जिनार्बोपदेशः ३०॥ 000000000000000०००००००००००००००००००००००००००0000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy