________________
अपिच-- मौलिं खं च जिनेश्वरस्य नमनात् कौँ गुणाऽऽकर्णनाद नेत्रे रूपनिरूपणेन रसना स्तोत्रक्रमोपक्रमैः । . पाणी पूजनकर्मकर्मठतया चैत्याऽऽगमेन क्रमौ चित्तं संस्मरणाद् करोति विमलं कश्चिद्विपश्चिन्नरः ॥ २ ॥
जिनपूजाऽभावे तु निष्फलं सर्वम् । यतःयैस्त्वं नाथ! न वन्दितो न च जिनः संपूजितः पूजनैः सद्भक्त्या न च संस्तुतस्तव गुणग्रामोऽभिरामः सदा । न ध्यातः परमेश्वरः शिवगतः सुध्यानयोगैर्नहि तैनूनं विफलीकृतो निजभवोऽरण्ये यथा मालती ॥ ३ ॥ पूजा नैव कृता जिनस्य कमलैः किञ्जल्कगन्धोत्कटैर्दानं नैव चतुर्विधं मुनिजने दत्तं मया भक्तितः । तप्तं नैव तपः सुचारु चरितं रत्नत्रयाराधकम् ; हा! कष्टं जननी मया प्रसवने दुःखेन संयोजिता ॥४॥
धन्यस्तु स एव यस्य धनं निजपूजायां लगति । यतः-- ज्वलनजलचौरचारणनृपखलदायादवन्दिकोवृत्तम् । धन्योऽसौ यस्य धनं जिनपूजायां मुदा लग्नम् ॥५॥.
जैनेन्द्रार्चनवेश्मबिम्बमहिमायात्राऽभिपेकादिपु ब्रह्माऽऽसेवनतत्परेपु यतिपु ज्येष्ठार्यगुर्वादिपु । श्रीसङ्घ च यथाविधि प्रतिदिनं यद् द्रव्यमेति व्ययं नृणां सौख्यकरं तदेव वहते क्लेशाय शेषं पुनः ॥६॥
. (२०४)