________________
0000000000000000000०००००००००००००००००००००००0000000
पुरुषाणां गौरवं मातुलः करोति; स्त्रीणां गौरवं भागिनेयश्च । स जारः स्त्रीरूपेण पतिप्रान्ते उपविष्टः। पश्यां परिवेषयन् यदा तदने समायाति तदैवं कथयति स्म-साण्ठिकामध्ये त्वमासीः स कथयति स्म--नाहं नाहम् । भागिनेयो लोकान् पर्यवसापयति स्म। एषा कथयति स्म-नाहमेतद्ग्रहीप्यामीतिकथनेन मोदकादिषु एवमेव निर्वालितम्। करम्बपरिवेषणे पतेस्तस्यापि न परिवेषितम् । तया तत्स्वरूपं ज्ञात्वा द्वादशमोदका अदीयन्त । कञ्चुककक्षादिमध्ये गोपितास्ते । ततः सर्वाः स्त्रियो यावत्स्वगृहं प्रति गच्छन्ति स्म तावता भागिनेयेनोक्तम्-मम मातुलस्य मण्डपवर्द्धापनं कुर्वन्तु।सर्वाः स्त्रियः कुर्वन्ति स्म, यदा तस्य स्त्रीरूपधारिणो वारकः समागतः, तदा बद्धहस्त इव स व पयति स्म । स वदति स्म । बद्धाभ्यां हस्ताभ्यां कस्माइ पयसीति कथयित्वा बलात्कारेण तद्वाहू प्रसारितौ । तदा मोदकाः पेतुः । तदनु मातुलान्याः स्वरूपं सर्व स्फुटमजनि लोकानां, मातुलस्य च । मातुलं प्रतिबोध्य देवः स्वस्थानं प्राप्तः। श्रेष्ठी दीक्षां लात्वा तपस्तप्त्वा च खकार्यमसाधयत्॥इति जिनार्बोपदेशः २९॥
श्रीमजिनेन्द्रपदपङ्कजपूजनेन ज्ञानक्रियाकलितसद्गुरुसेवनेन । ... खाध्यायसंयमतपोविनयादिना च कस्याऽपि पुण्यपुरुषस्य दिनानि यान्ति ॥ १॥