________________
000000000000000000000000000000000000०००००००
गम्यते । एताः साण्ठिका यदि कर्तिता भविष्यन्ति तदा गृहे गंस्यते । तत्कथनात्तेन सर्वाः कर्तिताः । भारो बद्धः।तं लात्वा यावता गृहं प्रति समागच्छतः, तावन्मातुलान्याऽन्याऽऽसक्तया तज्जेमनाय पुनर्विशेषभोजनसामग्री विहिता । भोजनाय यावज्जारमुपवेशयति तावत्तौ गृहद्वारे प्राप्तौ । तया जारः पशुकुट्यां गोपितः । तदुपरि तृणानि क्षिप्तानि । भागिनेयेन साण्ठिकाभारस्तदुपरि क्षिप्तः। तया तयोः स्नानादि कारितम् । मातुलो यावता भोजनायोपविशति, तावता भागिनेयेन देवपूजादिविषये कुतोऽलसस्त्वमित्युक्तम् ?। आजीविकादौष्कर्येण सर्व विस्मृतमित्युत्तरं मातुलेन दत्तम् । भागिनेयेन जिनार्चा विना भोजनकरणनियमोऽदायि। ततो भोजनायोपविष्टौ। यदा सा नीरसं परिवेषयति स्म; तदा नन्दापुत्रेणोक्तम्-लपनश्रियं परिवेषय; कूरदाल्यौ च । तया सर्व परिवे. षितम् । भोजनादनु मातुल! चतुष्पथे गम्यते। मातुलो वक्ति स्म-साण्ठिकाभ्यः कणान् लास्यामि । भागिनेयस्तु मुशलमादाय मध्यस्थितजारां साण्ठिकां कुट्टयित्वा कणान् पातयामास । मातुलान्या उक्तम्-त्वया कणा ग्राह्या इति । तदनु तौ बहिनिर्गतौ। तं निष्कास्य शरीरे शंखचूर्णादि दत्त्वा तद्गृहं प्रेषितः। प्रतिदिनलक्ष्मीप्रवर्द्धनात्पूजामाहात्म्यदर्शनाद् जिनपूजायां निधानप्राप्त्या तेन श्रेष्ठी दृढीकृतः; संपत्त्याऽऽत्मजविवाहः कारितो महोत्सवेन । मण्डपनिवृत्तिदिवसे सर्वखजनवर्गो ग्रामलोकश्च भोजनाय निमन्त्रितो मातुलान्या जारोऽपि च । भोजनावसरे