________________
00000000000000
यदुक्तम् -- जिणपूरणेण पुज्जो होइ सुगन्धो सुगन्धधूवेण । दीवेण दित्तिमन्तो अक्खइओ अक्खएहिं तु ॥ २॥ ह्नवणेण निम्मलत्तं इंदत्तं लहइ थुइपयाणेण । गणहरतित्थयरत्तं जिणस्स घयपगरणे कुणइ ॥ ३ ॥
तथा त्रैलोक्यशोभाकारिणी कीर्तिः स्यात् । दृष्टान्तो यथा--वाराणस्यां देपालाभिधो व्यवहारी लक्ष्म्याश्चञ्चत्वं विचिन्त्य जिनभवनबिम्बेत्यादिषु सप्तक्षेत्रेषु खलक्ष्मीं व्ययति स्म । स्वकारितप्रासादे पूजानृत्तादि प्रत्यहं करोति, कारयति स्म च । क्रमेण क्षीणविभवोऽभूत् । पुरातनमहत्त्वेन द्रव्यव्ययो महान् भवति स्म । तेन प्रत्यन्तग्रामे गतः । तत्र कृषिकर्मादिना कष्टेन निर्वाहं करोति स्म निर्द्धनत्वेन खप्रासादे पूजादिकं किमपि न कारयति स्म । प्रतिमाऽधिष्ठायकदेवेनाऽचिन्ति । पूजादि कुतो न भवति ? | अवधिज्ञानेन श्रेष्ठिनः खरूपमवगतम् । तत्प्रतिबोधनोपकारकरणार्थं दूरदेशान्तरस्थभागिनेयरूपं कृत्वा तद्गृहं गतः । मातुलान्या जोत्कारः कृतः । पृष्टम् -- मातुलः क्वास्ति ?। तयोक्तम्--क्षेत्रे । तन्मिलनाय यावदागच्छति तावता तया शीताशनायोपवेशितः । युगन्धरीघृष्टितक्रादि यावत् परिवेषयति तावता तेनोक्तम् -- एतत् शिक्यकस्थपूपिकाचूर्ण परिवेषय । एवमुक्ते तया तत्परिवेषितम् । पुनः कथयति स्म - अत्रस्थं करम्बं परिवेषय । सोऽपि परिवेषितः । तदनु मातुलमिलनाय क्षेत्रं गतः । मातुलस्य प्रणामः । आजीविकाखरूपं पृष्टम् । तेन सर्वमुक्तम् । मध्याह्ने मातुलस्योक्तम् -- भोजनाय गृहे
२१
(२०१)