________________
मुक्तिपदं प्राप्ताः।तथा संसारसागरतरी, श्रेयःकल्पवृक्षमञ्जरी, धर्मनरेश्वरनगरी, आपल्लीधूमरी, जयमाङ्गलिककारिणी जिनपूजा कार्या ॥ इति जिनार्थोपदेशः २६ ॥
3000000000000000000000000000000000000000000000000000
दर्शनाद् दुरितध्वंसी वन्दनाद्वाञ्छितप्रदः । पूजनात् पूरकः श्रीणां जिनः साक्षात्सुरद्रुमः ॥ १॥ श्रीजिनप्रतिमापूजावन्दनदर्शनेनाऽपि सर्वऋषिहत्याऽऽदिपातकानि भाववशाद्विलयं व्रजन्ति । यतः____ दुरितं दूरतो याति साधुवादः प्रवर्तते । दारिद्यमुद्रा विद्राति सम्यग् दृष्टे जिनेश्वरे ॥ २॥
दृष्टान्तो यथा-अर्बुदाचलाधिपतिना परमारपाल्हणेन रीरीप्रतिमा गालिता । तत्पित्तलेनाऽचलेनाऽचलेश्वरशण्डः कारितः । तत्पातकेन गलितकुष्ठी जातः । गोत्रिभी राज्यं गृहीतम् , मरणभीत्या देशान्तरे निर्गतो भ्रमन् शीलधवलाचार्याणां मिलितः। जिनार्चागालनपातकं प्रोक्तम् । गुरुभिः प्रतिबोधो दत्तः। पश्चात्तापाद् गुरुपादे लगित्वा स्थितः। हे भगवन् ! पातकक्षयोपायं कथय प्रसद्य सद्यो दीने मयि । गुरुभिरुक्तम्-राजन् ! प्रासादप्रतिमादिपुण्यं कुरु कुरु। तदनु तेन खनाम्ना प्रह्लादनपुरं निवेशितम् । तत्र स्वकारितषोडशवर्णकपिशीर्षकरम्ये पाल्हण-18 विहारे श्रीपार्श्वनाथस्य प्रतिमा कारिता श्रीचन्द्रप्रभादिप्रासादाश्च । त्रिसन्ध्यं पूजां करोति स्म। गवाक्षस्थः साहाद
MERO So०००००००००००००००००००००००००००००००००००००००००००००००