________________
Ooooooooooooooooo
श्रीजिनार्चा नेत्रानन्दकारिणी कृता कारिता दृष्टाऽनुमोदिताऽपि बोधिलाभाय भवति । दृष्टान्तो यथा--जयन्तीनगर्या नरसिंहो राजाऽपुत्रो राज्यं पालयति स्म । तत्रैव कमलश्रेष्ठी; तत्पुत्रः सुन्दरकुमारो रूपलावण्यसौभाग्यवि। “नयादिगुणरमणीयो राज्ञः प्राणेभ्योऽप्यत्यन्तवल्लभः पुत्रत्वेन स्थापितः । स्वाऽर्हासने सर्वदाऽपि राजा तं कुमाहै रमुपवेशयति स्म । एकदा तस्मिन्नगरे श्रीपालश्रेष्ठी कोटीध्वजः षट्त्रिंशत्क्रयाणकादिबहुवस्तुयुक्तः समागतः। रत्नमौक्तिकप्रवालभृतवर्णमयस्थालोपरि दिव्यमहर्घ्यसुरभिसहस्रदलविकसितकमलं मुक्त्वा राज्ञो मिलितः। तत्परिमलेन सभा हृतहृदया जाता। राज्ञा कमलं करे गृहीत्वा मनसि चिन्तितम्-सुगन्धकमलं मुधैव स्वदुर्गन्धाशुचिशरीरसङ्गेनापवित्रीकरोमि । ततोऽत्यन्तवल्लभसुन्दरकुमाराय समर्पितम् । तेनापि गृहं गच्छता जिनप्रासादं दृष्टा चिन्तितम्--एवंविधं कमलं यदि जिनपूजायै समेति तदा किं विलोक्यते ?। ततः पूर्वपूजितजिनप्रतिमामस्तकोपरि मुकुटस्थाने चटापितं हर्षेण । तेनाऽतीव शोभा जिनप्रतिमायाः समजनि। तदवसरे व्यवहारिपुत्रिकाचतुष्टयं देवनत्यर्थमागतम् । जिनपूजामत्यन्तरमणीयां चित्ताहादकारिणीं दृष्ट्रा कमलचटापकसुन्दरपुण्यमन्वमोदयत्। ततः कुमारेण तत्कन्याचतुष्टयं परिणीतम् । तत्पुण्येन पञ्चापि देवलोके महर्डिकाः सुरा जाताः, ततश्च्युताः प्रौढव्यवहारिसुताः संजाताः; तथैवैकदा जिनपूजां दृष्टा जातिस्मृतिमवाप्य साधुधर्ममवाप्य केवलज्ञानमुपायं
HOooooooo000000000000000000000000000000000no
0000mmaa