SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ चेतसा श्रीपार्श्वनाथप्रतिमा निरन्तरं विलोकयति स्म। तत्पुण्यानुभावन नष्टः कुष्ठः। यावज्जीवं जिनभक्तिं प्रतिपाल्य दिवं गतः । यथा जिनवन्दनेन वाञ्छितप्राप्तिः, तथा श्रीणां परिपूर्णता । किं बहुना ? साक्षात्कल्पद्रुम एव जिनः ॥ इति जिनार्थोपदेशः २७ ॥ 000000000000000000000000000000000000000000000 पापं लुम्पति दुर्गतिं दलयति व्यापादयत्यापदं पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगताम् । वैराग्यं विदधाति पल्लवयति प्रीतिं प्रसूते यशः खर्ग यच्छति निवृतिं च रचयत्यर्चाऽहंतां निर्मिता ॥ १॥ श्रीजिनार्चा भावविहिता सती अनादिकालानन्तभवोपार्जितपापं लोपयति । यदि जिनेन्द्रकथा श्रुता व्याख्याता सर्वपापहा तर्हि पूजा कृता किमुच्यते ? । यतःचिरसंचिअपावपणासणीइ भवसयसहस्समहणीए । चउव्वीसजिणंदविणिग्गयकहाए वोलंतु मे दिअहा ॥२॥ पापाऽभावेदुर्गतिरपि न स्यात् ; तथाऽऽपदं कप्टपरम्परां वधबन्धाऽकालमरणादिकां विनाशयति; तथा पुण्यप्राग्भारं सञ्चिनुते वईयति । यदुक्तम्-- जिणवंदणं कुणंतो हणइ नरो दुटुकम्मसंघायं । पावइ पुन्नं विउलं जह तहमेअं निसामेह ॥ ३ ॥ (१९९)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy