SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ जिनपूजनं जनानां जनयत्येकमपि संपदो विपुलाः । जलमिव जलदविमुक्तं काले शस्यश्रियो ह्यखिलाः ॥१॥ ___ अपरपुण्यकरणीयकरणाभावेऽपि जिनपूजनाख्यमेकं पुण्यं कृतं राज्यऋद्धिभोगादिसंपदो विपुलाः पुण्यानुबन्धिपुण्यत्वेन चटत्प्रकर्षाः संपादयति; इव यथा; मेघमुक्तं जलं काले अवसरे आर्द्रामघादिनक्षत्रेषु । है। अखिला वनस्पतिश्रियो निष्पादयति। दृष्टान्तो यथा-एकस्मिन् गिरौ पुलिन्दः, पुलिन्दी वसति स्म। तत्र मुनि। रागतस्तयोरग्रे जिनपूजाफलं प्रोक्तम् । लघुकर्मवात्पुलिन्द्या रुचितम् । प्रतिपन्नम् । ततो वनदेवकुले श्रीआदिनाथं वनवृक्षपत्रपुष्पैः पुलिन्दी पूजयति स्म । वणिग्देवोऽयं नात्मपूजाह इति पुलिन्दो वारं वारं निषेधयति स्म। परं सान | तिष्ठति स्म । कियता कालेन सा मृत्वा नृपसुता जाता। क्रमेण यौवनं प्राप्ता। गवाक्षस्थाऽधस्तादागतं तमेव कार्बटिकं दृष्ट्वा जातिस्मृतिमती। भिल्लमाकार्योक्तं--मामुपलक्षयासि ?। तेनोक्तम्-त्वां को नोपलक्षयति । तयोक्तम् । तथा न। पूर्वभवे तव पत्नी अहमासम् । परं वया मदुक्तं न कृतम् । यतः-अडविहिं पत्त नईइ जल तोइ न बूढा हत्थ । अज्जवि तेह कवाडीयह ! दीसइ तेअ अवत्थ ॥२॥ इत्युक्ला सोऽपि जिनपूजायां दृढीकृतः। सा राज्यसुखं प्रतिपाल्य खर्जगाम ॥ इति जिनार्थोपदेशः २०॥ HAIB0000000000000००००००००००००० 200000000000000000000000000000000000000000000000000000 (१९१)
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy