________________
यद्यत्नस्तत्प्रणीतसिद्धान्ते । यद्वन्दना यतीनां फलमेतज्जीवितव्यस्य ॥ १ ॥
भाग्यवता एतज्जीवितव्यस्य फलं ग्राह्यम् । यद्भक्तिः श्रीवीतरागे सा खल्पाऽपि भावविशेषेण विहिता महालाभाय भवति । न त्वन्या बहुतराऽप्यभावकृता ।
यदुक्तम् — विकल्पेन पुनर्देवार्चनं दानं करोति यः । स खं हारयते पुण्यमत्रोदाहरणे शृणु ॥ २ ॥ तथाहि वणिजौ कापि पुरे मण्डयतामुभौ । नन्दको भद्रकाख्यश्च नैकट्येनाऽऽपणद्वयम् ॥ ३ ॥ भद्रकः प्रातरुत्थाय नित्यं याति निजापणे । नन्दको देवपूजार्थ पुनर्याति जिनालये ॥ ४ ॥ भद्रकश्चिन्तयत्येवमहो ! धन्योऽत्र नन्दकः । त्यक्तान्यकृत्यो यः प्रातर्जिनेन्द्रं नित्यमर्चति ||५|| अहं तु निर्द्धनः पापी धनोपार्जनलालसः । अत्रागत्य मुखं प्रेक्षे पामराणां दिनोदये ॥ ६ ॥ धिग् धिग् मे जीवितं गोत्रमितिध्यानजलेन सः । मलं क्षालयति स्वीयं पुण्यबीजं च सिञ्चति ॥७॥ चिन्तयन्नन्दकस्त्वेवं मम देवार्चनक्षणे । भद्रको नित्यसज्जोऽयं धनं बहर्जयिष्यति ॥ ८ ॥ अभिग्रहगृहीतोऽहं किं करोम्यधुना पुनः । देवार्चायाः फलं दूरे सद्यो हानिर्धनस्य तु ॥ ९ ॥ कुविकल्पैरिमैरेष कृतं हारितवान्निजम् । एकतानमनोभिस्तत्कार्य देवार्चनं बुधैः ॥ १० ॥
(१९२)