SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ एवमेकाग्रचेतसा त्रिकालदेवपूजोपक्रमः कार्यः ॥ इति जिनार्कोपदेशः १८ ॥ 200000000000000000000000000000000000000000000000000 खर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः शुभा सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलकोडे लुठत्यञ्जसा यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ॥ १॥ ___ यः श्रद्धावासनावासिताऽऽत्मा जिनपूजां तनोति तस्य स्वर्गसौख्यं गृहाङ्गणवत् सुगमम् , तथा राज्यलक्ष्मीवंशवर्तिनी स्यात् । यथा देवपालगोपालेन गोवृन्दं चारयता नदीपतिततटीमध्ये जिनप्रतिमा दृष्टा; वनमध्ये कुटीरकं कृत्वा स्थापिता; पूजां विना न भोक्ष्ये इत्यभिग्रहं लावा सर्वदा पूजयति स्म। एकदा नद्यां पूरः समायातः, सप्तदिनीस्थितम् । सप्तोपवासी जाता। अष्टमदिने पूजां कृत्वा भोजनं कृतवान् । शासनदेवता | तुष्टा वरं वृणु । तन्नगरराज्यं मार्गितम् । तद्दत्तम् । साहङ्कारसामन्ता देवतया चित्रामसैन्यमधिष्ठाय बड्वा वश- | वर्तिनः कृताः । यावज्जीवं राज्यं प्रतिपाल्य वर्ग गतः, सौभाग्यादिगुणश्रेणिस्तस्य देहगेहे खेच्छया विलसति; संसारः सुतरः स्यात् ; मोक्षसौख्यमपि करतले लुठति; इति जिनपूजाफलं ज्ञात्वा तद्विषये उद्यमः कार्यः ॥ इति जिना!पदेशः १९ ॥ (१९०) ००००००००००००००००००००००००००००००००००००००००००००००
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy