________________
जिनस्य पूजनं हन्ति प्रातः पापं निशाभवम् । आजन्मविहितं मध्ये सप्तजन्मकृतं निशि ॥ १॥
प्रातः परमेश्वरपूजा रात्रिलग्नपापहा भवति; कुलाचारव्यवहारेण जिनवन्दनपूजनादिसमाचरणात् । मध्याह्न तु भोजनादिकं त्यक्त्वा महाभावकृता मध्याह्नपूजा आजन्मकृतपापहा स्यात् । संध्यायां तु गृहव्यापारचिन्तां कृत्वा निश्चिन्तः शुभध्यानमारूढो जिनं पूजयति । सा पूजा सप्तजन्मकृतपापहा । यतः कालवेलाकृता पूजा महालाभाय भवति । यतः____ जलाहारौषधखापविद्योत्सर्गकृतिक्रियाः । सत्फलाः खखकाले स्युरेवं पूजा जिनेश्वरे ॥ २॥
सा चैकाग्रमनसा कार्या, पेथडदेसङ्घाधिपतिवत् । यथा-पेथडदेवस्त्रिकालं देवपूजां करोति स्म। एकदा देवपूजाऽवसरे जयसिंहनृपेण पञ्चषवारमन्यान्यपाझंदाकारितोऽपि यदा नागतस्तदा नरेन्द्र एव सदनमागत्य दूरतः पेथडं पृथुडम्बरदेवपूजापरं वीक्ष्य पश्चादेशासीनं नानाप्रसूनार्पकं जनमुत्थाप्य प्रच्छन्नमुपविश्य च वयं पुष्पाणि पाणिपझैरर्पयितुं लग्नः; परं कुसुमार्पणविधिमजानन्नन्यान्यर्पयत्; तदा पेथडः पश्चादालोकयन्नृपं दृष्ट्वा याबदभ्युत्तिष्ठति तावत्करे धृत्वा नृपस्तमुपवेश्य देवपूजैकाग्रतारं जितचेता । उवाच-यदि मदीये गृहे महदपि कार्य स्यात् तदा त्वया पूजाक्षणे नागन्तव्यम् ; इत्युक्त्वा स्वस्थानं प्राप्तः ।
(१८९)
0000000000000000000000000000000000000000000000000000