________________
2000ROAD000000000000000000000000००००००००००००००००
वाङ्गोपाङ्गः स्यात् । यथा--दमयन्त्या पूर्वभवे वीरमतीनाम्न्या २४ जिनानां रत्नतिलकानि कारितानि । तत्पुण्यानुभावेन तिलकालङ्कृतललाटाऽहर्निशं कान्तिनिर्णाशिततमःप्रचारा त्रिखण्डाधिपतिनलनरेन्द्रपट्टराज्ञी दमयन्ती बभूव ॥ पुष्पपूजया तीर्थकरपदी लभते, यतस्तीर्थकराः पूर्वपूर्वतीर्थकृत्पूजां कृत्वैव पूज्यत्वं लभन्ते । यदुक्तम्अरिहन्तसिद्धपवयणगुरुथेरबहुस्सुए तवस्सीसु । वच्छलया इमेसि अभिक्खनाणोवओगे अ ॥ २॥
इत्यादि २० स्थानकाराधनपुण्येनैव ॥ तथा गन्धपूजया सुगन्धतनुः कमलकर्पूरकस्तूरिकावत् कायपरिमलः स्यात् । दीपपूजया केवलज्ञानावाप्तिः । यतः
धूपं दहति पापानि दीपो मृत्युविनाशनः । नैवेद्यैर्विपुलं राज्यं प्रदक्षिणा शिवप्रदा ॥ ३ ॥ रत्नढौकनाच्चक्रवर्तिपदवीं प्राप्नोति; किं बहुना ? मोक्षपदप्राप्तिरपि स्यात् । यतःवीतरागं स्मरन् योगी वीतरागत्वमश्नुते । ईलिका भ्रमरीभीता ध्यायन्ती, भ्रमरी यथा ॥ ४ ॥
॥ इति जिना!पदेशः १७ ॥
०००००००००००००००००००००००००००००००००००००००००००००००००००b
(१८८)