________________
o0o0o0ooooooooooooooooml
तन्नगरनृपेण राजपाटिकानिर्गतेन दृष्टः; नीतः परिपालितः, दीक्षां गृह्णता राज्ये स्थापितः । कालेन राजर्षि
निीभूय तद्बोधनायागात्तत्र पुरे; सलोको राजा वन्दनाय गतः; सा मातङ्ग्यपि वन्दितुमागता, राजानं वीक्ष्य । प्रस्नुता; राज्ञोऽपि तदर्शने मातृस्नेहः; ऋषिणा सर्वो वृत्तान्त उक्तः; ततः पूर्वभवपृच्छा; मुनिराह-वापि पुरे' श्रीमान् व्यवहारी पूजां कुर्वन् पद्मासनोपरि पतितैः कैश्चित्पुष्पैर्जिनार्चा चक्रे; अनालोचिततत्कर्मणा मातङ्गकुले जन्म; देवपूजाप्रभावाच्च राज्यं, पूर्वभवस्मृतिः, कालेन दीक्षा; स्वर्ग मोक्षं च प्राप्स्यास । उच्छिष्टपुष्पपूजाकथां श्रुत्वा शुचिपुष्पार्चनविधौ चिन्त्यम् ॥ इति जिनार्थोपदेशः १६ ॥
००००००००००००००००००००००००००००००००००००००००००००००००००००००
E. वस्त्रैर्वस्त्रविभूतयः शुचितरालङ्कारतोऽलङ्कृतिः; पुष्पैः पूज्यपदं सुगन्धतनुता गन्धैर्जिने पूजिते । न दीपैनिमनावृतं निरुपमा भोगाश्च रत्नादिभिः सन्त्येतानि किमद्भुतं शिवपदप्राप्तिस्ततो देहिनाम् ? ॥१॥
- वस्त्रैश्चन्द्रोदयाङ्गरूक्षणपरिधापनिकाध्वजपताकादिपूजातः प्रतिष्ठानिकाझूर्णकझमरतलीपुडतापनेमसिर्बतीपुरोदस्तपीठगजवडिबोरीयावडिचीरसानबापघनप्रतलक्षीरोदकसाउलापट्टकूलकमलवनांवीडीप्रमुखवस्त्रशृङ्गारः स्यात् । तथा वर्णचक्षुःश्रीवत्सहारकपोलबीजपूरपालठीछत्रमुकुटतिलकाद्याभरणप्रदानत आभरणालङ्कृतस
(१८५)