________________
र्गादीनि कार्याणि, न तु विषमाणि शरीरविकृत्याकारकारणानि ॥ इति जिनार्थोपदेशः १५॥
300000000000000000000
00000000000000000000
संसारपारगं वीतरागं मुक्तिसुखप्रदम् । चम्पकादिकसद्यस्ककुसुमैः पूजयेद् बुधः ॥ १॥ , तद्दिनाऽऽनीतसुगन्धचम्पकशतपत्रकेतकादिककुसुमैः श्रीवीतरागं पूजयेत् , न त्वालमालबिल्लीपत्रादिभिरपवित्रपुष्पैरपि । यतः
हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित्पादयोर्यन्मुझे गतं धृतं कुवसनै भेरधो यद् धृतम् । स्पृष्टं दुष्टजनैर्घनैरभिहतं यद् दूषितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथो भक्तैर्जिनप्रीतये ॥ २ ॥ न शुष्कैः पूजयेद् देवं कुसुमैर्न महीगतैः । न विशीर्णदलैः स्पृष्टै शुभै विकाशिभिः ॥ ३ ॥ - पूतिगन्धान्यगन्धानि अम्लगन्धानि वर्जयेत् । कीटकोशापविद्धानि शीर्णपर्युषितानि च ॥ ४ ॥ इत्याद्यपवित्रपुष्पैर्यो जिनं पूजयति तस्य फलमपि तथाविधमेव । यथा--
पूजां कुर्वन्नङ्गलग्नैर्धरायां पतितैः पुनः । यः करोत्यर्चनं पुष्पैरुच्छिष्टः सो हि जायते ॥ ५॥ . यथा कामरूपत्तने मातङ्गकुले सदन्तः सुतो जातस्तं तथा वीक्ष्य पिता नष्टो मात्रा भीत्या बहिस्त्यक्तः ।