________________
00000000000०००००००००००००००००००००००००००००००००००००००००००
यदुक्तम्-म्लायन्ति पुष्पनिचयाः प्रहरार्द्धकेन वैगन्ध्यमेति दिवसेन कृतोऽङ्गरागः।
जीर्यन्ति रम्यवसनान्यपि भूरिवर्षे! जीर्यते युगशतैर्जिन-रत्नपूजा ॥ २ ॥ सप्तलक्षमनुष्यकलिते श्रीवस्तुपालसङ्घ श्रीअनुपमदेव्या श्रीगिरिनारे नीरप्रक्षालितस्वमलैात्रिंशग़म्मलक्षाभरणैः श्रीनेमीश्वरः पूजितस्तदनु कोटिपुष्पैः ।।
यदुक्तम्-द्वात्रिंशता द्रम्मलक्षैरेकदा रैवताचले । नेमीश्वरस्यानुपमा पूजां चक्रे प्रमोदतः ॥ ३ ॥ जिनभक्तिहष्टचेतसा तेजःपालेन द्वात्रिंशल्लक्षटङ्ककैस्तानि पुनर्नव्यानि कारितानि, पुनरपि श्रीशत्रुअये तैराभरणैम०-अनुपमदेव्या श्रीऋषभदेवप्रतिमा पूजिता; तदा देवरपत्नीकृताभरणपूजां विलोक्य मं०-ललितादेव्याऽपि ३२ लक्षटङ्ककाभरणैः पूजिता; शोभनादास्या लक्षटङ्कमूल्यस्खाभरणैः पूजिता; वस्तुपालमन्त्रिणा सर्वासामाधकमूल्यानि कारितानि, एवं देवगिरीयसं०-धाईदेवेन मुक्ताफलप्रवालचूनीहीरासुवर्णपुष्पादिभिः श्रीऋषभदेवप्रतिमाया आङ्गी कृता; तदनु नवलक्षचम्पकारी । तथा जिनाज्ञा सम्यग् मनसा पालनीया । यतःआणाइ तवो आणाइ संजमो तह य दाणमाणाए । आणारहिओ धम्मो पलालपूलव्व पडिहाइ ॥ ४ ॥
(१७०)
०००००००००००