________________
जिणपूअणं तिसंझं कुणमाणो सोहए सम्मत्तं । तित्थयरनामगुत्तं पावइ सेणीयनरिंदव्व ॥ २ ॥ तथा सद्यस्तनसुरभिपुष्पाऽभावे पूजा प्रातर्वासैः कार्या ।
..यदुक्तम् — प्रातः प्रपूजयेद्दासैः मध्याह्ने कुसुमैर्जिनम् । संध्यायां धूपनैदींपैस्त्रिधा देवं प्रपूजयेत् ॥ ३ ॥ सामान्यपुष्पैः पूजा न कार्येव । यदुक्तं विष्णुरहस्ये --
न शुष्कैः पूजयेद्देवं कुसुमैर्न महीगतैः । न विशीर्णदलैः स्पृष्टैर्नाऽशुभैर्नाऽविकाशिभिः ॥ ४ ॥ पूतिगन्धान्यगन्धानि अम्लगन्धानि वर्जयेत् । पद्मपुराणे -
कीटकेशापविद्धानि शीर्णपर्युषितानि च । वर्जयेदूर्णनाभेन वासितं यदि शोभनम् ॥ ५ ॥ इत्यादियुक्त्या जिनपूजा कार्या । इति पूजोपदेशः २ ॥
पुष्पाद्यच तदाज्ञा च तद्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च भक्तिः पञ्चविधा जिने ॥ १ ॥ श्रीवीतरागे चकारा भवति । प्रथमा पुष्पादिपूजा - चम्पकजातीशतपत्रमालतीकमलादी - आदिशब्दाद् मुक्ताफलहारकनकमयच्छत्राद्याभरणानि चटाप्यन्ते । आभरणपूजा शाश्वती ।
(१६९)