________________
श्रीश्रेणिकवत् ; यथा--श्रीश्रेणिकोऽविरतिमानपि प्रतिदिनाष्टोत्तरशतनव्यनिष्पन्नस्वर्णयत्रस्त्रस्तिकढौकनादिविस्तरदेवपूजापुण्यप्रभावादागामिचतुर्विंशतिकायां प्रथमतीर्थङ्करः पद्मनाभाभिधानो भविष्यति श्रीमहावीरसमानदेहवर्णलाञ्छनायुष्यः । इहलोकेऽपि पूजाकरो नरः स्नात्रोत्सवे महेभ्यसङ्घपतीनामपि पूजनीयो भवति। यतः-अंही तीर्थपथाग्रगौ सुकृतिनौ दारिद्र्यसर्वकषौ पाणी धन्यतमौ जगतप्रियवचाः कण्ठो भुजौ धूर्धरौ । ईदृग्भाग्यभराऽभिरामलिपिभृद्वालं तदेषां क्रमात् पूजा माङ्गलिकेऽर्हतो दृशि जनैः सङ्क्षेशितुस्तन्यते ॥ ४ ॥
तथा जिनपूजा ऋद्धिवृद्धिकरी भवति । ऋद्धिर्धनधान्यादिका, वृद्धिः कुटुम्वपरिवारमानमहत्त्वप्रतिष्ठादिका; तथा श्रीजिनपूजा सर्वमनोवाञ्छितार्थप्रसाधिका; यतो जयाभ्युदयरोगोपशान्तिसन्तानप्रमुखमनोऽभीष्टाऽर्थसिद्धिर्जिनपूजातो जायते; अतो भाग्यवद्भिः परमेश्वरपूजा कार्या । इति जिनपूजोपदेशः १ ॥
I
जो पूएइ तिसंझं जिणंदरायं तहा विगयरायं । यस्त्रिसंध्यं विधिना जिनराजं विगतरागद्वेषं पूजयति स तृतीयभवे सिद्ध्यति, बहुलकर्माऽपि सप्ताष्टतईअभवे सिज्झइ अहवा सत्तद्रुमे जम्मे ॥ १ ॥ भवे मोक्षं प्राप्नोति । यतः
(१६८)