________________
प्यमयान्येव । तदा पञ्च पञ्चशती पङ्कौ पङ्कौ स्वर्णरूप्यमयानि मण्डितानि । एवं याममध्येऽपि सकलः श्रीसङ्घो भोजितः परिधापितश्च पञ्चवर्णपट्टकूलमटीभिः । तदनु सं० - झाञ्झणः सं०-आभूपादयोर्लग्नः । मदीयोऽपराधः क्षन्तव्यः, किं सुवर्णे श्यामिका लगति ?; त्वं भाग्यवान्, यस्येदृशमौदार्यमित्यादि सं ० - आभूगुणोपवृंहणां कुर्वन् श्रीशत्रुञ्जयादियात्रां कृत्वा समागतो मण्डपदुर्गे ॥ इति श्रीसङ्घभक्त्युपदेशो नवमः ॥
--
चक्रे तेन जिनार्चनं स विदधे सम्यग्गुरूपासनं तत्त्वं तेन जिनागमस्य विदितं सङ्घोन्नतिं स व्यधात्। सत्यंकारितमेव तेन सुधिया निर्वाणसौख्यं जवाद् यः साधर्मिकगौरवं वितनुते हृष्टो गुरूणामिव ॥ १ ॥
यथा सुरगिरौ सा० - जगसिंहेन त्रिशतषष्टिसाधर्मिकाः स्वराशिव्यवसायकारणेनात्मसदृक्षा महेभ्याः कृताः; प्रतिदिनमेकैकस्मिन् गेहे साधर्मिकवात्सल्यम्; एवं सर्वदाऽपि । एवमन्येऽपि श्रे०--जावडि मं०उदयनबाहडदे सं०--पेथडझाञ्झणदे सा० - जगडू सा० - भीमादीनां दृष्टान्ताः सहस्रशः स्वयं वाच्याः । एवं भाग्यवता सङ्घवात्सल्येन स्त्रं जनुः सफलीकार्यम् ॥ इति साधर्मिकवात्सल्योपदेशो दशमः ॥
(१६५)