________________
यद्युगादिजिनयात्रिकलोकं पूजयाम्यहमशेषमखिन्नः ॥ ५ ॥
भोजयित्वा परिधाप्य च रञ्जितः श्रीसङ्घः । मन्त्री सहैव यात्रां गतः पूनडाभ्यर्थनातः । यात्रां कृत्वा मन्त्री पूनडश्चं स्त्रं खं पुरं प्राप्तौ ॥ इति सङ्घभक्त्युपदेशोऽष्टमः ॥
-००००---
जिनभक्तिः कृता तेन शासनस्योन्नतिस्तथा । साधर्मिकेषु वात्सल्यं कृतं येन सुबुद्धिना ॥ १ ॥ यथा-लघुकाश्मीरापराभिधे थारापद्रनगरे श्रीश्रीमाली सं०--आभूः पश्चिममण्डलीकबिरुदधारी निवसति स्म । अथैकदा मण्डपदुर्गे सं०--झांझणदेवाग्रे तद्भट्टेन - प्राघूर्णकसाधर्मिकवात्सल्यभोजनदानं विना न भुङ्क्ते सं ० -- आभूरित्यादिगुणवर्णनं कृतम्, ततस्तद्गुणश्रवणचमत्कृतेन तत्परीक्षार्थ प्रच्छन्नवृत्त्या पृथक् पृथक् वर्त्मना सङ्केतितदिने समकालं द्वात्रिंशत्सहस्रसाधर्मिकसङ्घन सार्द्धं श्रीझाञ्झणोऽविच्छिन्नप्रयाणैरश्ववारैरज्ञातागमनस्वरूपः समागतश्चतुर्दशीदिने सं ० - आभूप्रधाने गृहीतपौषधे निसीहीं कुर्वाणो जिनालये शालायां संप्राप्तः; सं०-आभूलघुभ्रात्रा जिनदासनाम्ना निमन्त्रितस्तदावासे गतो दुग्धपादप्रक्षालनपूर्वमासनेषूपवेशितः, सं०आभूर्नमस्कारं गृणन् समागतः । तदा भ्रात्रोक्तम्--स्थालानि कीदृशानि कर्षयामि ? । सङ्घपतिनोक्तम्-स्वर्णरू
(१६४)