SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ इत्यादिप्रकारैर्विवेकिभिः श्रीसङ्घः पूजनीयः । । इति सङ्घपूजोपदेशस्तृतीयः। यः संसारनिरासलालसमतिर्मुक्त्यर्थमुत्तिष्ठते यं तीर्थ कथयन्ति पावनतया येनास्ति नान्यः समः । | यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन् स सङ्घोऽर्च्यताम्॥१॥ यः श्रीसङ्कः आचार्योपाध्यायसाधुसाध्वीश्राद्धश्राविकारूपः क्रियाज्ञानदर्शनदानशीलतपःकरणादिपुण्यै|| मुक्त्यर्थमुद्यमं करोति; यं श्रीसङ्घ परमतीर्थ कथयन्ति महर्षयः । यतस्तीर्थ प्रथमगणधरश्चतुर्विधः श्रीसङ्घो वा, तथा येन श्रीसङ्घन समो नान्यः कश्चित् आर्यदेशेपूत्पत्तिसद्भावाद् दुर्लभत्वेन । ____ यतः--सद् द्रव्यं सत्कुले जन्म सिद्धक्षेत्रं समाधयः । सङ्घश्चतुर्विधो लोके सकाराः पञ्च दुर्लभाः ॥२॥ तथा तीर्थकरोऽपि यस्मै नमस्कारं करोति धर्मदेशनाप्रारम्भे, 'नमो तित्थस्स' इत्युक्त्वा । यतः-तित्थपणामं काउं कहेइ साहारणेण सद्देण । सव्वेसिं सन्नीणं जोअणनीहारिणा भयवं ॥ ३ ॥ यस्मान्माङ्गलिकानि प्रासादप्रतिमातीर्थयात्रापदप्रतिष्ठासङ्घवात्सल्यसत्रागाराऽमायुद्घोषणादीनि स (१५६) ०००००००००००००००००००००००००००००००००००००००००००००००००००००० cácóô cốc 000000000000000000000000000000
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy