________________
००००००००००
000000000000000000000000000000000000000000
भवन्ति । यस्य श्रीसङ्घस्य प्रकृष्टा स्फूतिर्महिमा गुरुताऽनन्यसाधारणी नरेश्वरा अपि कथितकारिणो भवन्ति, यस्य रेखां न लुम्पन्ति, ये तु श्रीसङ्घप्रत्यनीकास्ते तु गर्दभिल्लनृपनमुचिविप्रवदुच्छेदं प्राप्नुवन्ति; यस्मिन् दानशीलसत्यादयो गुणा वसन्ति, एवंविधः श्रीसङ्घः, अशनपानखादिमखादिमाद्याहारनानाविधवस्त्रपात्रादिसत्कारैः श्रीवस्तुपालवत्पूजनीयः । यतःचौलुक्यः परमाहतो नृपशतस्वामी जिनेन्द्राज्ञया निर्ग्रन्थाय जनाय दानमसमं न प्राप जानन्नपि । स प्राप्तस्त्रिदिवं स्वचारुचरितैः सत्पात्रदानेच्छया खद्रूपोऽवततार गूर्जरभुवि श्रीवस्तुपाल ! ध्रुवम् ॥ ४ ॥
इति श्रीसङ्घपूजोपदेशश्चतुर्थः ।
००००००००००००००००००००००००००००००००००
रत्नानामिव रोहणः क्षितिधरः खं तारकाणामिव वर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव । पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसावित्यालोच्य विरच्यतां भगवतः सङ्घस्य पूजाविधिः ॥ १ ॥
इव यथा रोहणाचलः नीलमहानीलमरकतकर्केतकपद्मरागवैडूर्यसूर्यकान्तजलकान्तश्रीकान्तवीतशोकाEN पराजितगङ्गोदकमसारगल्लहंसगर्मलोहिताक्षकौस्तुभचिन्तामणिप्रमुखाणां स्थानम्, इव यथाऽऽकाशं सूर्य