________________
-७
०००००००००००००००००००००००००००००००००००००००००
तद्भक्त्या विहितं भुजार्जितधनैः सङ्घस्य यैः पूजनं किं तैनीम न पूजितं सुकृतिभिः किं वा न लब्धं फलम् ||२|| श्रीसङ्घपूजा चतुर्विधा वस्त्रपात्रालङ्कारताम्बूलादिभेदतः । तत्र वस्त्रपूजा यथा-- न्यायोपात्तैः सितैर्वस्त्रैः सङ्घमभ्यर्चयन्ति ये । तदेहपञ्जरे लक्ष्मीः कुरुते सारिकावतम् ॥ ३ ॥ यज्जन्मैव गुणास्पदं जगति यच्छृङ्गार आयो नृणां शीतोष्णाद्यमुपद्रवं हरति यन्निर्लज्जभावापहम् ।। प्रासादध्वजकैतवादिव सुरैरारोप्यते मूर्ति यत् तद्देयं गुरवे विशुद्धवसनं धन्यैः सुपुण्यात्मने ॥ ४॥ पात्रपूजा यथा--पतद्ग्रहादिकं पात्रं देयं योग्यं सुसाधवे । संसारसागरोत्तारहेतवे धातुवर्जितम् ॥ ५ ॥ आभरणपूजा यथापट्टकूलादिवासासि स्वर्णादितिलकानि च । साधर्मिकाणां सम्यक्त्वशुद्धयै देयानि भावतः ॥ ६ ॥ यतःसाहम्मिअम्मि पत्ते घरंगणे जस्स होइ न हु नेहो । जिणसासणभणिअमिणं सम्मत्ते तस्स संदेहो ॥ ७ ॥ ताम्बूलप्रदानपूजा यथारूप्यखर्णादिकैप्टकैः क्रमुकैर्लाङ्गलीफलैः । नागवल्लीदलैयं ताम्बूलं श्रावकैः सदा ॥ ८॥
(१५५)
००००००००००००००००००००००००००००००००००००००००60006