SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ मसृणघुसृणपकैर्भालपट्टेषु लिप्त्वा विधिलिखितकुवर्णश्रेणिकाजातकस्य । विरचयति सुवर्णश्रेणिभूषाममीषां ध्रुवमिति नववेधा वस्तुपालः सुमेधाः ॥ ४ ॥ __ षट्त्रिंशता हेममयैः सहस्रै रत्नोज्ज्वलैः श्रावकपुङ्गवानाम् । __भालस्थले भूषयति स्म भक्त्या श्रीवस्तुपालस्तिलकैर्विवेकी ॥ ५॥ तदुत्सवे संजाते श्रीवस्तुपालोक्तिः-- ___ कदा किल भविष्यन्ति मद्गृहाङ्गणभूमयः । श्रीसङ्घचरणाम्भोजरजोराजीपवित्रिताः ॥ ६ ॥ इत्यादिप्रकारैः श्रीसङ्घश्चतुर्विधः पूजनीयः प्रतिवर्ष प्रमोदप्रकर्षेण विभवानुसारेण भाग्यवता ॥ ॥ इति सङ्घपूजोपदेशो द्वितीयः॥ -noporon अर्हतामपि मान्योऽयं पूज्यः पुण्यवतामपि । सेव्यः सुरासुरेशानां सङ्घः पूज्यस्ततो बुधैः ॥ १॥ त्रैलोक्यपूज्यचरणकमलः श्रीसङ्घश्चतुरेण पूज्यः प्रमोदतः । यतः। सङ्घः सद्गुणसङ्घसंहतिकरः सङ्घो जिनैर्वन्दितः सङ्घः शासनवृद्धिहेतुरसकृत् सङ्घः सतां मुक्तिदः। . (१५४) .
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy