________________
0000000000०००००००००००००००००००००००००00000000000000000
अथ चतुर्विधश्रीश्रमणसङ्घभक्तिपूजनोपदेशास्तद्यथारत्नेषु चिन्तामणिरत्र यहत्सारस्तरूणामिव कल्पवृक्षः । देवेषु सर्वेप्वपि वीतरागस्तद्वत्सुपात्रेषु सुसाधुसङ्घः॥१॥ ज्ञानादिनिश्शेषगुणौघरत्नरत्नाकरे बिन्दुरिवाऽम्भसोऽन्तः। सो नियुक्तो निजवित्तलेशः स्यादक्षयःक्षीणपरिक्षयेऽत्र॥२॥
श्रीसङ्घस्य रत्नाकरस्योपमा युक्ता । यतःपंचपरमिहिरयणाई बहुमुल्लाइं जस्स मज्झम्मि । उपपज्जंति सया वि हु स संघरयणायरो जयउ ॥ ३ ॥
श्रीसङ्घः पञ्चविंशस्तीर्थङ्करः सर्वतीर्थकरनमस्करणीयः । यतःउवीं गुीं तदनु जलदः सागरः कुम्भजन्मा व्योमाथातो रविहिमकरौ तौ च यस्यांहिपीठे। स प्रौढश्रीर्जिनपरिवृढः सोऽपि यस्य प्रणन्ता स श्रीसङ्घस्त्रिभुवनगुरुः कस्य न स्याद् नमस्यः ॥ ४॥ __प्राग् मेरुर्भूस्ततोऽब्दोऽधिरगस्त्यः खं ग्रहा जिनः। प्रौढा एकैकतः सर्वप्रौढः सङ्घस्तदर्चितः ॥ ५॥ लोकेभ्यो नृपतिस्ततोऽपि हि वरश्चक्री ततो वासवः सर्वेभ्योऽपि जिनेश्वरः समधिको विश्वत्रयीनायकः । सोऽपि ज्ञानमहोदधिः प्रतिदिनं सङ्घ नमस्यत्यहो ! वजूस्वामिवदुन्नतिं नयति तं यः स प्रशस्यः क्षितौ ॥६॥
अत एव श्रीवजूस्वामिना बाल्येऽपि श्रीसङ्घो बहु मानितः, श्रीसूरिपदादनु १२ वर्षदुष्काले स्वशक्त्या है।
20000000000000000000000000000000000000000000000