________________
योगिनः सर्वसिद्धिकरः समजनि । एवमपरेऽपि चण्डपिङ्गलहुण्डिकयक्षश्रीमती स्वर्णपुरुषसिद्धाः नमस्कारस्मरणे दृष्टान्ता ज्ञेयाः ॥ अथ न्यायरुचिः -- न्यायमार्गसेवातः इहलोके यशः कीर्त्तिमहत्त्वप्रतिष्ठादयः, सद्गत्यादिकं
च परत्र ।
यतः--यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥ १ ॥ धर्मिणि नृपे रामराज्यमुच्यते ॥ अथ निष्ठा - पञ्चेन्द्रियनिग्रहः प्रतिक्रमणसामायिकपोषधग्रहणाद्यनुष्ठानं दुष्करश्राद्धप्रतिमादिप्रतिपालनं महालाभाय भवति । यतः -
तिरिआकुसमकसारा निवा य वहबन्धमारणसयाई । नवि इहयं पावंता परत्थ जइ नियमिआ हुंता ॥ २ ॥ इन्द्रियाणि मुत्कलान्यनर्थप्रदानि । यतः -
कुरङ्गमातङ्गपतङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्याद् यः सेवते पञ्चभिरेव पञ्च ॥३॥ चक्षुर्दग्धं परस्त्रीभिर्हस्तौ दग्धौ प्रतिग्रहैः । जिह्वा दग्धा परान्नेन गतं जन्म निरर्थकम् ॥ ४ ॥ . इत्यादिवैराग्यवासनावान् शुभगतिं लभते । प्रदेशीनृपादिदृष्टान्ता वाच्याः ॥
॥ इति पुस्तक लेखनोपदेशः ॥ (१५१)
१६