________________
300000000000000000000000000000000000000000000000000000
खस्यैकच्छत्रतां विश्वे पापानि विमृशन्तु मा । अघमर्षणमन्त्रेऽस्मिन् सति श्रीजिनशासने ॥ ९॥ सिंहेनेव मदान्धगन्धकरिणो मित्रांशुनेव क्षपाध्वान्तौघो विधुनेव तापततयः कल्पद्रुणेवाऽऽधयः । तायेणेव फणाभृतो घनकदम्बेनेव दावाग्नयः सत्त्वानां परमेष्ठिमन्त्रमहसा वल्गन्ति नोपद्रवाः॥१०॥
संग्रामसागरकरीन्द्रभुजङ्गसिंहदुर्व्याधिवाहिरिपुबन्धनसंभवानि ।। चौरग्रहभ्रमनिशाचरशाकिनीनां नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥ ११ ॥ ध्यातोऽपि पापशमनः परमेष्ठिमन्त्रः किं स्यात्तपःप्रबलितो विधिनाऽर्चितश्च ।
दुग्धं स्वयं हि मधुरं कथितं तु युक्त्या संमिश्रितं च सितया वसुधासुधेव ॥ १२ ॥ आकृष्टिं सुरसंपदा विदधती मुक्तिश्रियो वश्यतामुच्चाट विपदां चतुर्गतिभुवां विद्वेषमात्मैनसाम् । स्तम्भं दुर्गमनं प्रति प्रयततां मोहस्य संमोहनं पायात् पञ्चनमस्क्रियाऽक्षरमयी साऽऽराधनादेवता ॥१३॥ यो लक्षं जिनबद्धलक्ष्यसुमनाः सुव्यक्तवर्णक्रमं श्रद्धावान् विजितेन्द्रियो भवहरं मन्त्रं जपेच्छावकः । पुष्पैः श्वेतसुगन्धिभिश्च विधिना लक्षप्रमाणैर्जिनं यः संपूजयते स विश्वमहितः श्रीतीर्थराजो भवेत् ॥ १४ ॥ स्वस्थाने पूर्णमुच्चारं मार्गे चाऽध समाचरेत् । पादमाकस्मिकातङ्के स्मृतिमात्रं मरणान्तिके ॥ १५ ॥
(१४८)
000000000000000000000000000000000000000000000000001