________________
anmmmmnnnnnnAN
-
दुष्कर्मरक्षोदमनकदक्षो ध्येयस्त्रिधा श्रीपरमेष्ठिमन्त्रः ॥ १॥ किमत्र मन्त्रौषधिमूलिकाभिः किं गारुडस्वर्गमणीन्द्रजालैः । स्फुरन्ति चित्ते यदि मन्त्रराजपदानि कल्याणपदप्रदानि ॥ २ ॥ श्रीमन्नमस्कारपदानि सर्वसिद्धान्तसाराणि नवाऽपि नूनम् ।
'आद्यानि पञ्चाऽतिमहान्ति तेषु मुख्यं महाध्येयमिहामनन्ति ॥ ३ ॥ पञ्चादौ यत्पदानि त्रिभुवनपतिभिर्व्याहृता पञ्चतीर्थी तीर्थान्येवाष्टषष्टिर्जिनसमयरहस्यानि यस्याऽक्षराणि । यस्याष्टौ संपदश्चानुपमतममहासिद्धयोऽद्वैतशक्ति याल्लोकद्वयस्याऽभिलषितफलदः श्रीनमस्कारमन्त्रः॥४॥
पञ्चतायाः क्षणे पञ्च रत्नानि परमेष्ठिनाम् । आस्ये दधाति यस्तस्य सद्गतिः स्याद् भवान्तरे ॥ ५॥
भोअणसमए सयणे विबोहणे पवेसणे भए वसणे । पंचनमुक्कारं खलु समरिज्जा सव्वकालंपि ॥ ६॥ धर्मोपदेशमालायाम् ।
वंतर बीजओरा तणो बीजो रावसि किद्ध । मन्तराउ महिमानिलो सो समरउ मणि सिद्ध ॥७॥ याताः प्रयान्ति यास्यन्ति पारं संसारवारिधेः । परमेष्ठिनमस्कारं स्मारं स्मारं घना जनाः ॥ ८॥
(१४७)
30000000000000000000000000000000000000000000000000005