SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ +0000000000000000000000000000000000000000000000000 | चरित्रपुस्तकवाचनातः श्राद्धा दानदेवपूजाशीलतपोभावनाप्रभावनादि पुण्यं कुर्वन्ति, तथा पुस्तकैर्विना पाण्डित्यमपि नायाति गुरूणां नव्यशिष्याणां च । यदुक्तम् आरोग्यबुद्धिविनयोद्यमशास्त्ररागाः पञ्चाऽऽन्तराः पठनसिद्धिकरा नराणाम् । आचार्यपुस्तकसहायनिवासवल्भा बाह्याश्च पञ्च पठनं परिवर्धयन्ति ॥ ३ ॥ इत्याधुपदेशतः श्रीवस्तुपालमन्त्रिणा सौवर्णमषीमयाक्षरा एका सिद्धान्तप्रतिर्लेखिता । अपरास्तु श्रीताडकागदपत्रेषु मषीवर्णाञ्चिताः प्रतयः । एवं सप्तकोटिद्रव्यव्ययेन सप्त सरस्वतीकोशा लेखिताः । तदनु श्री-उदयप्रभसूरिभिराशीर्वादः प्रदत्तः । तद्यथा .' जम्बूद्वीपो जलधिपरिखाभूषितो यावदास्ते ज्योतिश्चक्र सुरगिरितटी पर्यटत्येव यावत् । ___ यावत्कूर्मो वहति वसुधां त्वद्यशःपुञ्जसार्ध जीयाज्जैन मुखमिव परं पुस्तकं वस्तुपाल ! ॥ ४ ॥ एवमपरैः पुण्यवद्भिः पुस्तकलेखनवाचनादितद्रक्षणोपकरणमीलने परबलादिभयवृष्ट्यादिविनाशे जायमाने तत्तन्निर्भयस्थानकुटिमबद्धावासे मूपकाग्निकीटकस्पन्दादिदोषरहिते सुयत्नस्थापनविषये चिन्तनीयम् ॥ ॥ इति पुस्तकलेखनोपदेशो द्वितीयः ॥ . (१४२) 0000000000000000000000000000000000000000000000000000 -
SR No.010552
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani
PublisherHarshchandra Bhurabhai Shah
Publication Year
Total Pages313
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy